विड्भस्मात्मा च देहो भवति गुरुवरो यो विवेकं विरक्तिं |
त्वयीति । ईश्वरस्य जगत्कारणत्वमूर्णनाभाच्छिक्षणीयमित्याह स्वयीति । त्वत्कृतं त्वया निमित्तोपादानकारणभूतेन सृष्टं त्वय्येव क्षपयसि संहरसि । ऊर्णनाभ: लूता। स हि निमित्तोपादानभूतेन स्वात्मना सृष्टं तन्तुवितानं स्वस्मिन्नेव स्वयं संहरति । भगवद्ध्यानं तत्सारूप्यमापादयतीति पेशकाराच्छिक्षयेयमित्याह–त्वञ्चिन्तेति । त्वत्स्वरूपं त्वत्सारूप्यम् । दृढं निश्चितम् । पेशः क्षुद्रकुटी, तां करोतीति पेशकारो भ्रमरविशेषः । तेन क्षुद्रकुटीं प्रवेशितो निरुद्धः कीटो भयेन तमेव ध्यायन् तत्सारूप्यं गच्छति । स्वशरीराच्छिक्षणीयमाह — विडिति । देहो मम गुरुवरो भवति। कुतः, सञ्चिन्त्यमानो विरक्तिं विवेकं च धत्ते करोति । दुर्लभत्वोपकारित्वे चिन्त्यमाने आत्मानात्मविवेकहेतुः अनित्यत्वपारक्यत्वदुःखोदर्कत्वेषु चिन्त्यमानेषु विरक्तिहेतुश्च भवतीति भावः । विरक्तिविवेकहेतुत्वमाह —विड्भस्मात्मेति । यदि श्वादिभिर्भक्षितः, तर्हि विष्ठात्मा भवति । यद्यग्निना दग्धः, तर्हि भस्मात्मा भवति । अतः परकीयोऽनित्यश्चायम् । आत्मा तु सञ्चिदानन्दस्वरूपस्तद्व्यतिरिक्त इति भावः । किञ्च, मम तु अयं देहः बहुरुजापीडितः विविधाभिर्वेदनाभिः परवशीकृतः सन् विशेषाद् विवेकं विरक्तिं च धत्त इति पूर्वेणान्वयः ॥ ८ ॥
ननु विवेकहेतुत्वेनोपकारिणि देहे मोहः कथं न सम्भवेदित्याशङ्कय देहमोहे दोषमाविष्कुर्वन् भगवन्तं प्रार्थयते -
ही ही मे देहमोहं त्यज पवनपुराधीश! यत्प्रेमहेतो- |
ही हीति । ही ही एवम्भूतेऽपि देहे मम महान् मोह इत्येतदाश्चर्यम् । तं देहमोहं देहविषयसुखसाधनत्वभ्रान्तिं त्यज । तत्र दोषमाह — यत्प्रेमहेतोरिति यस्मिन् देहे प्रेम्णा हेतुना गेहादिषु विवशिताः तद्योगक्षेमैकचित्ताः । किञ्च, सो-