पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२८
[स्कन्धः - ११
नारायणीये


क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तघः सन्त्यनन्ता-
 स्तेभ्यो विज्ञानवत्त्वात् पुरुष इह वरस्तज्जनिर्दुर्लभैव ।
तत्राप्यात्मात्मनः स्यात् सुहृदपि च रिपुर्यस्त्वयि न्यस्तचेता-
 स्वापोच्छिन्तेरुपाचं स्मरति स हि सुहृत् स्वात्मवैरी ततोऽन्यः ॥ २ ॥

 क्षुत्तृष्णेति । क्षुत्तृष्णयोः अशना[१]यापिपासयोः लोपः तृणकवलनजलपानादि एतावन्मात्रे सततं कृतधियो निश्चितबुद्धयः जन्तवः पश्वादयः अनन्ताः बहवः सन्ति ] तेभ्यः विज्ञानवत्त्वाद् आत्मदर्शनसामर्थ्येन इह भूमौ पुरुषो मनुष्यः वरः श्रेष्ठः । तज्जनिर्मनुष्यजन्म । तत्रापि मनुष्येष्वपि आत्मैवात्मनः सुहृद् उपकारी रिपुः अपकारी च । विवे[२]कमाह -यस्त्वयि न्यस्तचेता: अत एव तापोच्छित्तेः मोक्षस्य उपायं साधनं स्मरति जानाति, तथाविधश्वेदात्मा स्वयमेव आत्मनः स्वस्य सुहृद् बन्धुः स्यात् । ततोऽन्यः नैवंविधः स आत्मवैरी आत्महा ॥२॥

 नन्बात्मैवात्मनो गुरुरित्युक्तं तदसङ्गतमित्याशङ्कय यद् यस्याज्ञाननाशहेतुः स तस्य गुरुरितीह विवक्षितत्वात् स्थिरचराणामपि तद्धेतुत्वाद् गुरुत्वमूरीकरणीयं, किं पुनरात्मन इति परिहरन् पृथिव्यादिभ्यो गुरुभ्यः शिक्षणीयानि क्षमादीन्यात्मनः प्रार्थयते-

त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि[३] भूमन् !
 सर्वाक्रान्तापि भूमिर्न हि चलति ततः सत्क्षमां शिक्षयेयम् ।
गृह्णीयामीश! तत्तद्विषयपरिचयेऽप्यप्रसक्तिं समीराद्
 व्याप्तत्वं चात्मनो मे गगनगुरुबशाद् भातु निर्लेपता च ॥ ३ ॥


  1. 'नेच्छापि' ग. पाठः.
  2. 'शेषमा' क. पाठ:.
  3. विभूमन्निति व्याख्यासम्मतः पाठः.