पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
देशकम् - ९३]
३२७
पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनम् ।


 एवं विंशत्या क्ष्लोकैः कर्ममिश्रां भक्ति निरूप्य अनन्तरं ज्ञानमिश्रां निरूपयिष्यन् प्रथमं तदधिकारप्रांप्तिमाह -

बन्धुस्नेहं विजह्यां तव हि करुणया त्वय्युपावेशितात्मा
 सर्व त्यक्त्वा चरेयं सकलमपि जगद् वीक्ष्य मायाविलासम् ।
नानात्वाद् भ्रान्तिजन्यात् सति खलु गुणदोषाववोधे विधिर्वा
 व्यासेधो वा कथं तौ त्वयि निहितमतेर्वीतवैषम्यबुद्धेः ॥ १ ॥

 बन्धुस्नेहमिति । बन्धुषु पुत्रमित्रकलत्रादिषु स्नेहं यतस्त्वन्मायाकृतम् अतस्तव कृपया विजह्यां त्यजेयम् । हिशब्दस्तद्धाने साधनान्तरराहित्यं दर्शयति । ततस्त्वत्कृपयैव त्वयि उपावेशितात्मा समाहितचितः सन् जगद्[१] मायाविलासं त्वन्मायाकल्पितं वीक्ष्य अवगम्य त्वदुपासनातोऽन्यत् सर्वं कर्म विधिनिषेधभेदमपि त्यक्त्वा चरेयमिति गृहाद्यनपेक्षा[२] द्योत्यते । ननु विहितस्य कर्मणोऽननुष्ठानं न युक्तं, पापोत्पत्तौ प्रायश्चित्तमपि कार्यमेवेत्याशङ्कय कर्मणामविद्वदधिकारित्वेन विदुषस्तदकरणे न दोष इत्याह नानात्वादिति । मनुष्योऽहमिति देहे अहमभिमानो भ्रान्तिः । तज्जन्यं नानात्वं वर्णाश्रमादिभेदः । तत्सत्यताङ्गीकार एव गुणदोषौ नित्यनैमित्तिकं कर्म सत्त्वशोधकत्वाद् गुणः, हिंसादि दोषः, पापक्षयसाधनत्वात कृच्छ्रचान्द्रायणादि गुणः इत्यादिगुणदोषावबोधे सत्येव विधिर्व्यासेधो निषेधो वा भवेत् । त्वयि निहितमतेः ब्रह्मैवेदं सर्वमिति निश्चितबुद्धेः अत एव वीतवैषम्यबुद्धेः त्यक्तनानात्वभ्रमस्य मम[३] तु कथं तौ विधिनिषैधौ स्याताम् । अतो विधिनिषेधानधिकारात् सर्वं त्यक्त्वा चरेयमित्यर्थः । एवञ्च विधिनिषेधातीतो ज्ञानमिश्रायां भक्तावधिकारीत्यपि दर्शितम् । तदुक्तं मुक्ताफले "ज्ञानमिश्रैका भिक्षूणाम्" इति ॥ १ ॥

 एतत् सर्व पुरुषशरीरेणैव साध्यमिति वक्तुं तिर्यगादिदेहेभ्यः पुरुषतनुरुत्कृष्टेति पुरुषत्वं स्तौति-


  1. 'तू त्व' ख. पाठ:.
  2. 'क्षता घो' क. ग. पाठ:.
  3. ’म क' क. पाठः.