पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२६
[स्कन्धः - ११
नारायणीये


 ननु त्रिभिः ऋणैर्जातस्य तदनपाकरणे कथं मुक्तिः स्यादित्यत आह -

देवर्षीणां पितृणामपि न पुनर्ऋणी किङ्करो वा स भूमन् !
 योऽसौ सर्वात्मना त्वां शरणमुपगतः सर्वकृत्यानि हित्वा ।
तस्योत्पनं विकर्माप्यखिलमपनुदस्येव चित्तस्थितस्त्वं
 तन्मे पा[१] पोत्थतापान् पवनपुरपते ! रुन्धि भक्ति प्रणीयाः ॥ १० ॥

 देवर्षीणामिति । देवानाम् ऋषीणां पितॄणामपि, यथा अभक्त ऋणी अधमर्णो भवति । अत एव तदपाकरणाय यज्ञाध्ययनपुत्रोत्पादनादि तेन कर्तव्यमिति तेषां किङ्करश्च भवति । तथाच स्मृतिः “हीनजाति परिक्षीणमृणार्थं कर्म कारयेत् ”(याज्ञ. अ. २. क्ष्लो. ४३) इति । स भक्तः पुनर्ऋणी किङ्करो वा न भवति । तत्र हेतुमाह – योऽसाविति । यः पुरुषः सर्वात्मना सर्वभावेन त्वां शरणमुपगतः सर्वकृत्यानि विहितसकलकर्माणि हित्वा । ननु [२] तर्हि सर्वात्मना निषिद्धकर्मणोऽपरिहार्यत्वात् प्रायश्चित्तादिकर्म कर्तव्यं, नेत्याह — तस्येति । विकर्म निषिद्धकुर्मणः फलं तस्य त्वां शरणं गतस्य तावन्न संभवति । यदि प्रमादादिना भवेत्, तर्हि तदपीत्यपिशब्दार्थ: । अखिलं निरवशेषम् अपनुदास नाशयसि[३] । ननु नास्य पापक्षयार्थं भगवदुपासनम्, अत आह — चित्तस्थितस्त्वमिति । न हि वस्तुशक्तिर्थितामपेक्षते कार्योत्पादनाय, यथा ह्यौषधं फलार्थिनामफलार्थिनामप्यविशेषेणारोग्यादि जनयति तथेति भावः । तत् तस्माद् यस्माञ्चित्तस्थः पापमपनुदसि, पापोत्थान् पापकर्मजनितान् तापान् दुरितानि रुन्धि वारय । भक्ति प्रणीयाः अनपायिनीं कृषीष्ठाः ॥ १० ॥

इति कर्ममिश्रभक्तिस्वरूपवर्णनं द्विनवतितमं दशकम् ।



  1. 'वातोत्थ' घ. पाठः.
  2. 'नु स' ख. पाठः.
  3. ‘सि । ना' ग. पाठः.