पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ९२]
३२५
कर्ममिश्रभक्तिस्वरूपवर्णनम् ।


भक्ता भवन्तीति भावः । एतदन्तर्भवं द्रमिलविषयान्तःपातिनम्[१] अपिच त्वायि किञ्चिदञ्चद्रसम् ईषदारब्धभक्ति मां न भ्रमय ॥ ७ ॥

दृष्ट्वा धर्मगुहं तं कालिमपकरुणं प्राङ् महीक्षित् परीक्षि-
 द्धन्तुं व्याकृष्टखड्गोऽपि न विनिहतवान् सारवेदी गुणांशात् ।
त्वत्सेवाद्याशु सिध्येदसदिह न तथा त्वत्परे चैष भीरु-
 र्यत्तु प्रागेव रोगादिभिरपहरते तत्र हा शिक्षयैनम् ॥ ८ ॥

 दृष्ट्वेति । प्राक् पुरा परीक्षिन्नाम महीक्षिद् राजा धर्मद्रुहं वृषरूपिणं धर्मे दण्डेन प्रहरन्तं तं[२] कलिं दृष्ट्वा हन्तुं व्याकृष्टखोपि गुणांशाद्[३] न विनिहतवान् । ननु गुणांशे सत्यपि धर्मगृहं किं न निहतानित्यत्राह- सारवेदीति। अल्पत्वेऽपि गुणस्य सारांशत्वं जानन्नित्यर्थः । तदेवाह-वत्सेवादीति । अर्चननामकीर्तनादि आशु इह जन्मन्येव सिध्येद् भक्तिद्वारा मुक्तिमुत्पादयेत् । असद् दुष्कर्म तु इह कलौ न तथा नाशु सिध्येत् । किञ्च, त्वत्परे त्वद्भक्तविषये चैष कलिर्भीरुः ईश्वरविमुखेष्वेव कलिः प्रभवतीति भावः । किञ्च, प्रागेव त्वत्सेवाद्यारम्भात् पूर्वमेव रोगादिभिरपहरते त्वद्भजनान्निवर्तयतीति[४] तु यत् हा मम तु तदेवापतितम् । तन्न अपहरणे एनं कलिं शिक्षय[५] । यथा स्वत्सेवायामुघुक्तात् कलिर्दूरतोऽपसरति, तथैनं कुर्विति भावः ॥८॥

गङ्गा गीता च गायत्र्यपि च तुलसिका गोपिकाचन्दनं तत्
 सालग्रामामिपूजा परपुरुष ! तथैकादशी नामवर्णाः ।
[६]एतान्यष्टाप्ययत्नान्ययि कलिसमये त्वत्प्रसादप्रवृद्ध्या
 क्षिप्रं मुक्तिप्रदानीत्याभिदधुर्ॠषयस्तेषु मां सज्जयेथाः ॥ ९॥

 गङ्गेति । त्वत्प्रसादप्रवृद्ध्या तद्द्वारेण मुक्तिप्रदान्येतानीत्यत्र स्मृतिप्रमाणत्वमाह - अभिदधुर्ऋषय इति ॥ ९ ॥


  1. 'म् अपि त्व' ख. पाठः.
  2. 'तम् उक्तगुणं क्र' क. ग. पाठः.
  3. देतुभूताद् न' क. ग. पाठः.
  4. 'ति य' क. पाठः.
  5. 'य ॥' क. ख. पाठः.
  6. 'अष्टावेतन्यय' क. पाठ:.