क्षुत्तृष्णालोपमात्रे सततकृतधियो जन्तघः सन्त्यनन्ता- |
क्षुत्तृष्णेति । क्षुत्तृष्णयोः अशना[१]यापिपासयोः लोपः तृणकवलनजलपानादि एतावन्मात्रे सततं कृतधियो निश्चितबुद्धयः जन्तवः पश्वादयः अनन्ताः बहवः सन्ति ] तेभ्यः विज्ञानवत्त्वाद् आत्मदर्शनसामर्थ्येन इह भूमौ पुरुषो मनुष्यः वरः श्रेष्ठः । तज्जनिर्मनुष्यजन्म । तत्रापि मनुष्येष्वपि आत्मैवात्मनः सुहृद् उपकारी रिपुः अपकारी च । विवे[२]कमाह -यस्त्वयि न्यस्तचेता: अत एव तापोच्छित्तेः मोक्षस्य उपायं साधनं स्मरति जानाति, तथाविधश्वेदात्मा स्वयमेव आत्मनः स्वस्य सुहृद् बन्धुः स्यात् । ततोऽन्यः नैवंविधः स आत्मवैरी आत्महा ॥२॥
नन्बात्मैवात्मनो गुरुरित्युक्तं तदसङ्गतमित्याशङ्कय यद् यस्याज्ञाननाशहेतुः स तस्य गुरुरितीह विवक्षितत्वात् स्थिरचराणामपि तद्धेतुत्वाद् गुरुत्वमूरीकरणीयं, किं पुनरात्मन इति परिहरन् पृथिव्यादिभ्यो गुरुभ्यः शिक्षणीयानि क्षमादीन्यात्मनः प्रार्थयते-
त्वत्कारुण्ये प्रवृत्ते क इव न हि गुरुर्लोकवृत्तेऽपि[३] भूमन् ! |