पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ८६]
२९३
भारतयुद्धोपक्रमवर्णनम् ।


त्वय्यायातेऽथ जाते किल कुरुसदसि घूतके संयतायाः
 ऋन्दन्त्या याज्ञसेन्याः सकरुणमकृथाक्ष्चेलमालामनन्ताम् ।
अन्नान्तमातशर्वांशजमुनिचकितद्रौपदीचिन्तितोऽथ
 प्राप्तः शाकान्नमश्नन् मुनि [१]गणमकृथास्तृप्तिमन्तं वनान्ते ॥ ४ ॥

 त्वयीति । अथ त्वयि इन्द्रप्रस्थाद् द्वारकामायाते सति कुरुसदसि जाते घूतके सव्याजे घूते संयतायाः दुश्शासनेन गृहीतायाः चेलमालां वस्त्रपरम्पराम् । अन्नान्ते अन्नावसाने प्राप्तात् शर्वोशजाद् दुर्वाससो मुनेश्चकितया शापशङ्कितया द्रौपद्या चिन्तितस्तत्र प्राप्तः पात्रलग्नं शाकान्नम् अश्वन् मुनिगणं शिष्यवर्गसहितं दुर्वाससं तृप्तिमन्तमकृथाः ॥ ४ ॥

युद्धोद्योगेऽथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकः
 कौरव्ये दत्तसैन्यः करिपुरमगमो दूत्यकृत् पाण्डवार्थम् ।
भीष्मद्रोणादिमान्ये तव खलु वचने धिक्कृते कौरवेण
 व्यावृण्वन् विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वागतोऽभूः ॥ ५ ॥

 युद्धोद्योग इति । अथ युद्धोद्योगे मिलति सति फल्गुनेन त्वमेको मन्त्रे कार्यनिरूपणे वृतः समकालमागते कौरव्ये दत्तसैन्यः दुर्योधनाय दत्तयदुसैन्यः पाण्डवार्थ पाण्डवानामर्धराज्यलब्धये दूत्यं दूतकर्म करोतीति तथा । भीष्मद्रोणादिमिर्मान्ये पूजनीये कौरवेण दुर्योधनेन धिकृते सति मुनिसदसि विश्वात्मकं स्वं रूपं व्यावृण्वन् प्रकाशयन् ॥ ५ ॥

जिष्णोस्त्वं कृष्ण ! सूतः खलु समरमुखे बन्धुघाते दयालुं
 खिन्नं तं वीक्ष्य वीरं किमिदमयि सखे ! नित्य एकोऽयमात्मा ।
को वध्यः कोऽत्र हन्ता तदिह वधभियं प्रोज्झ्य मय्यर्पितात्मा
 धर्म्यं युद्धं चरेति प्रकृतिमनयथा दर्शयन् विश्वरूपम् ॥ ६ ॥


  1. 'जनम' क. पाठ:.