त्वय्यायातेऽथ जाते किल कुरुसदसि घूतके संयतायाः |
त्वयीति । अथ त्वयि इन्द्रप्रस्थाद् द्वारकामायाते सति कुरुसदसि जाते घूतके सव्याजे घूते संयतायाः दुश्शासनेन गृहीतायाः चेलमालां वस्त्रपरम्पराम् । अन्नान्ते अन्नावसाने प्राप्तात् शर्वोशजाद् दुर्वाससो मुनेश्चकितया शापशङ्कितया द्रौपद्या चिन्तितस्तत्र प्राप्तः पात्रलग्नं शाकान्नम् अश्वन् मुनिगणं शिष्यवर्गसहितं दुर्वाससं तृप्तिमन्तमकृथाः ॥ ४ ॥
युद्धोद्योगेऽथ मन्त्रे मिलति सति वृतः फल्गुनेन त्वमेकः |
युद्धोद्योग इति । अथ युद्धोद्योगे मिलति सति फल्गुनेन त्वमेको मन्त्रे कार्यनिरूपणे वृतः समकालमागते कौरव्ये दत्तसैन्यः दुर्योधनाय दत्तयदुसैन्यः पाण्डवार्थ पाण्डवानामर्धराज्यलब्धये दूत्यं दूतकर्म करोतीति तथा । भीष्मद्रोणादिमिर्मान्ये पूजनीये कौरवेण दुर्योधनेन धिकृते सति मुनिसदसि विश्वात्मकं स्वं रूपं व्यावृण्वन् प्रकाशयन् ॥ ५ ॥
जिष्णोस्त्वं कृष्ण ! सूतः खलु समरमुखे बन्धुघाते दयालुं |
- ↑ 'जनम' क. पाठ:.