पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९२
[स्कन्ध: - १०
नारायणीये


साल्वो भैष्मीविवाहे यदुबलविजितक्ष्चन्द्रचूडाद् विमानं
 विन्दन् सौभं स मायी त्वयि वसति कुरूंस्त्वत्पुरीमभ्यभाङ्क्षीत् ।
प्रघुम्नस्तं निरुन्धन्न[१]खिलयदुभटैर्न्यग्रहीदुग्रवीर्ये
 तस्यामात्यं घुमन्तं व्यजनि च समरः सप्तविंशत्यहान्तम् ॥ १ ॥

 साल्व इति । भैष्मीविवाहे रुक्मिणीस्वयंवरे यदुबलेन यदुसेनया विजितः पराजितः यादवोच्छेदप्रतिज्ञापूर्वकं प्रसादितात् चन्द्रचूडात् सौभाख्यं विमानं विन्दन् त्वयि कुरून् वसति सति त्वत्पुरी द्वारकाम् अभ्यभाङ्क्षीत् बभञ्ज । प्रघुम्नस्तु तं साल्वं निरुन्धन् घुमन्तं न्यग्रहीद् जघान ॥ १॥

तावत् त्वं रामशाली त्वरितमुपगतः खण्डितप्राय सैन्यं
 सौभेशं तं न्यरुन्धाः स च किल गदया शार्ङ्गमभ्रंशयत् ते ।
मायातातं व्यहिंसीदपि तव पुरतस्तत् त्वयापि क्षणार्धं
 नाज्ञायीत्याहुरेके तदिदमव[२]मतं व्यास एव न्यषेधीत् ॥ २ ॥

 तावादिति । सौभेशं साल्वम् । ते शार्ङ्ग धनुः अभ्रंशयत् त्याजयामास, तव पुरतो मायानिर्मितं तातं वसुदेवं व्यहिंसीदपि । तदिदं साल्वमायामोहनमवमतमिति व्यास एव

"क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः ।

क्व चाखण्डितविज्ञानज्ञानैश्वर्येश्वरो हरिः ॥”

(श्री. भा. स्क. १०. अ. ७७. क्ष्लो. ३१)

 इति न्यषेधीत् ॥ २ ॥

क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मङ्क्षु साल्वेऽपि चक्रे-
 णोत्कृत्ते दन्तवक्त्रः प्रसभमभिपतन्नभ्यमुञ्चद् गदां ते ।
कौमोदक्या हतोऽसावपि सुकृतनिधिश्चैद्यवत् प्रापदैवयं
 सर्वेषामेष पूर्वं त्वयि धृतमनसां मोक्षणार्थोऽवतारः ॥ ३ ॥

 क्षिप्त्वेति । ते तुभ्यं त्वां हन्तुं गदामभ्यमुञ्चत् । एषोऽवतारस्त्वयि घृतमनसां मोक्षणाय ॥३॥


  1. 'न्नि' क. ङ. पाठ:.
  2. 'प' ख. घ. ङ. पाठः.