साल्वो भैष्मीविवाहे यदुबलविजितक्ष्चन्द्रचूडाद् विमानं |
साल्व इति । भैष्मीविवाहे रुक्मिणीस्वयंवरे यदुबलेन यदुसेनया विजितः पराजितः यादवोच्छेदप्रतिज्ञापूर्वकं प्रसादितात् चन्द्रचूडात् सौभाख्यं विमानं विन्दन् त्वयि कुरून् वसति सति त्वत्पुरी द्वारकाम् अभ्यभाङ्क्षीत् बभञ्ज । प्रघुम्नस्तु तं साल्वं निरुन्धन् घुमन्तं न्यग्रहीद् जघान ॥ १॥
तावत् त्वं रामशाली त्वरितमुपगतः खण्डितप्राय सैन्यं |
तावादिति । सौभेशं साल्वम् । ते शार्ङ्ग धनुः अभ्रंशयत् त्याजयामास, तव पुरतो मायानिर्मितं तातं वसुदेवं व्यहिंसीदपि । तदिदं साल्वमायामोहनमवमतमिति व्यास एव
"क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः ।
क्व चाखण्डितविज्ञानज्ञानैश्वर्येश्वरो हरिः ॥”
(श्री. भा. स्क. १०. अ. ७७. क्ष्लो. ३१)
इति न्यषेधीत् ॥ २ ॥
क्षिप्त्वा सौभं गदाचूर्णितमुदकनिधौ मङ्क्षु साल्वेऽपि चक्रे- |
क्षिप्त्वेति । ते तुभ्यं त्वां हन्तुं गदामभ्यमुञ्चत् । एषोऽवतारस्त्वयि घृतमनसां मोक्षणाय ॥३॥