पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
[स्कन्धः - १०
नारायणीये


कुब्जामन्जविलोचनां पथि पुनर्द्दष्ट्वाङ्गरागे तया
 द्दत्ते साधु किलाङ्गरागमददास्तस्पा महान्तं हृदि ।
चित्तस्थामृतामथ प्रथयितुं गात्रेऽपि तस्याः स्फुटं
 गृह्णन् मञ्जु करेण तामुदनयस्तावज्जगत्सुन्दरोम् ॥ ५॥

 कुब्जामिति । कुब्जां त्रिवऋाम् अब्जविलोचनाम् इतरावयवसौन्दर्यातिशययुक्त म् । तयाङ्गरागे अनुलेपने दत्ते सति तस्या हृदि महान्तम् अङ्गे भवन्मूर्तौ रागगपुरागं भवत्यपरपर्याय मददाः । अङ्गेति पृथक्पदं वा । चित्तस्थां परोक्षाम् ऋतुनां गात्रेऽपि प्रथांयतुम् अपरोक्षीकर्तुं म्फुटं नूनं करेण मञ्जु अनुत्पादितवेदनं यथा भवति तथा गृह्णन् उदनयः ऋज्वीचकर्थ ॥ ५ ॥

तावन्निश्चितवैभवास्तव विभो! नात्यन्तपापा जना
 यत्किञ्चिद् ददते स्म शक्त्यनुगुणं ताम्बूलमाल्यादिकम् ।
गृह्णानः कुसुमादि किञ्चन तदा माग निबद्धाञ्जलि-
 र्नातिष्ठं बत हा यतोऽद्य विपुलामार्तिं व्रजामि प्रभो! ॥ ६ ॥

 तावदिति । याबदङ्गरागसमर्पणेन त्रिवक्रामप्यनुगृहीतवान्, तावत् तद्दृष्टान्तेन तव निश्चितं वैभव वरप्रदानशक्तिर्यैः । ये न चात्यन्तपापाः, ते जनाः शक्त्यनुगुणं यत्किञ्चित् ताम्बूलप्ताल्यादिकं तुभ्यं ददते स्म दत्तवन्तः । ते च कृतार्थाः । तदाहमपि किञ्चन कुसुमादि गृह्णानो मार्गे निबद्धाञ्जलिर्नातिष्ठम् । हा बत कष्टं, यतस्तदकरणादद्य विपुलां महतीम् आर्ति रोगादिजनितां पीडां व्रजामि ॥ ६ ॥

एष्यामीति विमुक्तयापि भगवन्नालेपदात्र्या तया
 दूरात् कातरया निरीक्षितगतिस्त्वं प्राविशो गोपुरम् ।
आघोषानुमिवत्वदागप्तमहार्षोल्ललद्देवकी-
 वक्षोजप्रगलत्पयोरसमिषात् त्वत्कीर्तिरन्तर्गता ॥ ७॥

 एष्यामीति । मद्गृहानागच्छेति प्रार्थितेन त्वया कृतकार्योऽहमेष्याम्यागच्छामीति विमुक्तया प्रेषितयापि तया आलेपदात्र्या त्रिवक्रया कातरया विरहेभीतया