पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ७४]
२५३
धनुश्शालायां धनुर्भङ्गादिवर्णनम् ।


दूराद् निरीक्षिता गतिर्यस्य स त्वं गोपुरं प्राविशः प्रविष्टवान् । आघोषेण त्वद्दर्शनादिप्रवृत्तपौरजनजनितेनानुमितः कल्पितो यस्त्वदावमः तज्जनितेन महता हर्षेण उल्ललतः क्षुभिताद् देवकीवक्षोजाद् यः पयोरसः प्रजगाल, तघ्घाजेन त्वत्कीर्तिस्त्वत्प्रवेशात् पूर्वमन्तर्गता नगरं प्रविष्टा ॥ ७ ॥

आविष्टो नगरी महोत्सववर्ती कोदण्डशालां व्रजन्
 माधुर्येण नु तेजसा नु पुरुषैर्दूरेण दत्तान्तरः ।
स्रग्भिभूषितमर्चितं वरधनुर्मा मेति वादात् पुरः
 प्रागृह्णाः समरोपयः किल समाक्राक्षीरभाङ्क्षीरपि ॥ ८ ॥

 आविष्ट इति । माधुर्येण वा श्रीमूर्तेर्वा मधुरतया तेजसा अधृप्यतया वा प्रतिषेद्धुमशक्यतया रक्षिरुपैर्दूरेण दत्तान्तरः परिहृतमार्गः सन् मा मा धनुः स्पृशेति वादाद् रक्षिपुरुत्रवचनात् पुरः पूर्वमेव धनुः प्रागृह्णाः अग्रहीः । पुनरपि मा मा समारोपयेति वादात् पुरः समरोपयः । एवं मा मा आकर्षयेति वादात् [१] पुर: समाक्राक्षीः । मा मा भाङ्गीरिति वादात् पुरः अभाङ्क्षीरपि ॥ ८ ॥

श्वः कंसक्षपणोत्सवस्य पुरतः प्रारम्भतूर्योपम-
 क्ष्चापध्वंसमहाध्वनिस्तव विभो! देवानरोमाञ्चयत् ।
कंसस्यापि च वेपथुस्तदुदितः कोदण्डखण्डद्वयी-
 चण्डाभ्याहतरक्षिपूरुषरवैरुत्कुलितोऽभूत् त्वया ॥ ९ ॥

 श्व इति । कंसक्षपणं कंसवधनामोत्सवो भावी । तस्य पुरतः पूर्वे मङ्गलार्थः प्रारम्भतूर्यरवः कर्तव्यः । तत्पशन्तव चापध्वंसमहाध्वनिर्देवानरोमाञ्चयत् कंसमपि *वधिष्यतीति रोमाञ्चितशरीरानकृत । कंसस्यापि तदुदितः चापध्वं[२] समहाध्वनिश्रवणाज्जातो वेपथुः कम्पः तस्यैव कोदण्डस्य खण्डद्वय्या चण्डाभ्याहतानां सुदृढ प्रहृतानां रक्षिपूरुषाणां रवैः धिग धिग् हा हताः स्म इति विलपनरूपैः त्वया उत्कूलितो वर्धितोऽभूत् ॥ ९ ॥


 * 'वधिः प्रकृत्यन्तरं व्यञ्जनान्तोऽस्ति' इति 'जनिवध्याश्च' (७. ३. ३५) इति सूत्रे वृत्तिकार: ।


  1. 'पूर्वे स क पाठ:.
  2. 'सध्व क. ग. पाठ:.