सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५०
[स्कन्ध:- १०
नारायणीये


हर्षभिन्धोनुवृत्या परमानन्दानुभवानिवृत्तेः पुलकावृतस्त्त्वां ययौ उन्मज्ज्य त्वत्समीमा ॥ ९ ॥

किमु शीतलिमा महान् जले यत् पुलकोऽसाविति चोदितेन तेन ।
अतिहर्षनिरुत्तरेण सार्धं रथवासी पवनेश! पाहि मां त्वम् ॥ १० ॥

 किन्विति । अतिहर्षनिरुत्तरेण भगवतः स्वरूपदर्शनेनानन्दबाप्पनिरुद्धकप्ठतथा अदत्तोत्तरेण ॥ १० ॥

इति भगवतो मथुराप्रस्थानवर्णनं यमुनाजले अक्रूरस्थ

भगवत्स्वरूपसाक्षात्कारादिवर्णनं च

त्रिसप्ततितमं दशकम्


सम्पाप्तो मथुरां दिनार्धविगमे तत्रान्तरस्मिन् वस-
 न्नारामे विहिताशनः सखिजनैर्यातः पुरीमीक्षितुम् ।
प्रापो[] राजपथं चिरश्रुतिधृतव्यालोककौतूहल-
 स्त्रीपुंसोद्य दगण्य पुण्य निगलैराकृष्यमाणो नु किम् ॥ १ ॥

 सम्प्राप्त इति । दिनार्धविगमे मध्याह्ने तत्र मथुरायाम् अन्तरस्मिन्नारामे काङ्कोद्याने वसन् राजपथं राजमार्गं प्रापः प्राप्तवान् । चिरश्रुत्या धृतं व्यालोककौतूहलं येषां तेभ्यः स्त्रीपुंसेभ्यः उद्यन्ति फलोन्मुखानि अगण्यानि अपरिमेयानि पुण्यान्येव निगलाः शृङ्खलाः तैराकृष्यमाणः किन्नु ॥ १ ॥

 तत्र कथमपि त्वत्सादृश्यानुमेयसुकृता मथुरास्त्रियस्त्वदर्शनसुखमन्वभूवन्नित्याह-

त्वत्पादघुतिवत् सरागसुभगास्त्वन्मूर्तिवद् योषितः
 सम्प्राप्ता विलसत्पयोधररुचो लोला भवददृष्टिवत् ।
हारिण्यस्त्वदुरस्स्थलीवदयि ते मन्दस्मितमौढिव-
 न्नैर्मल्योल्लसिताः कचौघरुचिवद् राजत्कलापाश्रिताः ॥ २ ॥


  1. 'प्तो' इ. च. पाठः.