पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् – ७३]
२४९
अक्रूरस्य भगवत्स्वरूपसाक्षात्कारवर्णनम् ।


 सविषादेति । वनिताभिः अतिदूरं सविषादभरं यथा भवति तथा त्वदागमनविलम्बेऽस्मत्प्राणा यास्यन्ति, अतरत्वरितमागन्तव्यमिति सयाच्ञं च यथा भवति तथा ईक्ष्यमाणस्त्वं तद्दिशि अपाङ्गान् कटाक्षान् मृदु मुकुलीकृताभ्यां नयनाभ्यां पातयन् निर्गतोऽभूः ॥ ५ ॥

अनसा बहुलेन वल्लवानां मनसा चानुगतोऽथ वल्लभानाम् ।
वनमार्तमृगं विषण्णवृक्षं समतीतो यमुनातटीमयासीः ॥ ६ ॥

 अनसेति । बल्लवानां गोपानाम् अनसा शकटेन । वल्लभानां गोपीनां मनसानुगतः आर्ताः पीडिता मृगाः यस्मिन् विषण्णा वृक्षा यस्मिन् तद् वनं समतीतः अतिक्रान्तः ॥ ६ ॥

नियमाय निमज्ज्य वारिणि त्वामभिवीक्ष्याथ रथेऽपि गान्दिनेयः ।
विवशोऽजनि किन्न्विदं विभोस्ते ननु चित्रं त्ववलोकनं समन्तात् ॥

 नियमायति । नियमाय सन्ध्यावन्दनादि कर्तुं वारिणि यनुनाजले निमज्ज्य तत्र त्वामभिवीक्ष्य अथ उन्मज्जनानन्तरं रथेऽपि त्वामभित्रीक्षा गान्दिनेयः अक्रूरः विवशोऽजनि । ननु विभोस्ते समन्तादवलोकनं किन्नु चित्रं, विभुत्वाद् व्याप्तत्वादेव न चित्रमित्यर्थः ॥ ७ ॥

पुनरेष निमज्ज्य पुण्यशाली पुरुषं त्वां परमं भुजङ्गभोगे ।
अरिकम्बुगदाम्बुजैः स्फुरन्तं सुरसिद्धोघपरीतमालुलोके ॥ ८ ॥

 पुनरिति । एषोऽक्रूरः पुग्यशाली सुकृती, अन्यथा शेषशायिनी भवतो दर्शनाभावात्, पुनर्निमज्ज्य त्वां परमं पुरुषं विष्णुम् आलुलोके ददर्श ॥ ८ ॥

स तदा परमात्मसौख्यसिन्धौ विनिमयः प्रणुवन् प्रकारभेदैः ।
अविलोक्य पुनश्च हर्षसिन्धोरनुवृत्त्या पुलकावृतोयौ त्वाम् ॥ ९ ॥

 स इति । परमात्मसौख्यसिन्धौ ब्रह्मान दार्णवे । प्रकारभेदैः सगुणार्गुणभेदैः प्रणुवन् स्तुवन् अविलोक्य तद्रूपं तिरोहितं वीक्ष्य पुनश्चानवलोकने सत्यापे