पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
[स्कन्ध:- १०
नारायणीये



निशमय्य तवाथ यानवार्तो भृशमार्ताः पशुपालवालिकास्ताः ।
किमिदं किमिदं कथं न्वितीमाः समवेताः परिदेवितान्यकुर्वन् ॥ १ ॥

 निशमय्येति । यानवार्तो श्वः प्रभाते श्रीकृष्णं नेतुमागतोऽक्रूर इत्येवरूपाम् । किमिदम् अमृतास्वादे विषगनमिवातिकष्टमवस्थान्तरमापतितम् । कथं न्विदम् अस्मद्भाग्यदोषाद् नन्दसूनोर्निष्करुणतया वा इत्येवमादीनि परिदेवितानि बिलपनान्यकुर्वन् ॥ १ ॥

 परिदेवितान्येवाह-

करुणानिधिरेष नन्दसूनुः कथमस्मान् विसृजेदनन्यनाथाः ।
बत नः किमु दैवमेवमासीदिति तास्त्वद्वतमानसा विलेपुः ॥ २ ॥

 करुणेति । नो दैवं भाग्यम् एवं निरतिशयसुखप्रदं सहसा नष्टं चासीत् किमु बत खिद्यामहे ॥ २ ॥

चरमप्रहरे प्रतिष्ठमानः सह पित्रा निजमित्रमण्डलैश्च ।
परितापभरं नितम्बिनीनां शमयिष्यन् व्यमुचः सखायमेकम् ॥ ३ ॥

 चरमेति । चरमप्रहरे अन्त्ययामे प्रतिष्ठमानो निर्गच्छन् एकं सखायमा[१]प्तं दूततया व्यमुचः प्रेषितवान् ॥ ३ ॥

अचिरादुपयामि सन्निधिं वो भविता साधु मयैव सङ्गमश्रीः ।
अमृताम्बुनिधौ निमज्जयिष्ये द्रुतमित्याश्वसिता वधूरकार्षीः ॥ ४ ॥

 अचिरादिति । वो युप्माकं मया सङ्गमश्रीः संभोगसौख्यम् अचिराद् भवितैव । किञ्च अमृताम्बुनिधौ सुखार्णवे, अथवा अमृतं मोक्षस्तद्रूपेऽम्बुनिधौ । अन्ते मोक्षमपि वो वितरिप्यामीत्यर्थः ॥ ४ ॥

सविषादभरं सयाच्ञमुच्चैरतिदूरं वनिताभिरीक्ष्यमाणः ।
मृदु तद्दिशि पातयन्नपाङ्गान् सबलोऽक्रूररथेन निर्गतोऽभूः ॥ ५ ॥


  1. 'माहूय द्’ ब. पाठः.