पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ७२]
२४७
अक्रूरस्य भगवत्कृतसत्कारादिवर्णनम् ।


 सायन्तनेति । सायन्तनः सन्ध्यासमयस्थः आप्लव: आकण्ठं स्नानं तेन विशेषेण विविक्तगात्रौ स्वच्छदेहौ नातिप्रपञ्चम् अनतिबहुलं यथा तथा धृतैः भूषणैः चारुर्मनोहरो वेषोऽलङ्कियाविशेषो ययोः ॥ ९॥

दूराद् रथात् समवरुह्य नमन्तमन-
 मुत्थाप्य भक्तकुलमौलिमथोपगूहन् ।
हर्षान्मिताक्षरगिरा कुशलानुयोगी
 पाणिं प्रगृह्य सबलोऽथ गृहं निनेथ ॥ १० ॥

 दूरादिति । हर्षादुपगूहन् मिताक्षरया गिरा कुशलानुयोगी कुशलं पृच्छन् गृहं निनेथ प्रवेशयामासिथ ॥ १० ॥

नन्देन साकममितादरमर्चयित्वा
 तं यादवं तदुदितां निशमय्यः वार्ताम् ।
गोपेषु भूपतिनिदेशकथां निवेद्य
 नानाकथाभिरिह तेन निशामनैषीः ॥ ११ ॥

 नन्देनेति । भूपतिनिदेशकथां कंसाज्ञावचनं निवेद्य उपायनसंभारसंभृतशकटसंयोजनाद्यादिश्य तेनाक्रूरेण सह नानाकथाभिः निशामनैषीः ॥ ११ ॥

 तस्यां निशायां श्रीकृष्णे गोपीनामन्यासक्तिशङ्काभूदित्याह -

चन्द्रागृहे किमुत चन्द्रभगागृहे नु
 राधागृहे नु भवने किमु मैत्रविन्दे ।
धूर्ती विलम्बत इति प्रमदाभिरुच्चै-
 राश[१]ङ्कितो निशि मरुत्पुरनाथ! पायाः ॥ १२ ॥

इति अक्रूरस्य गोकुलयात्रा-बृन्दावनप्राप्ति-भगवत्समागम-

भगवत्कृतसत्कारादीनां वर्णनं

द्विसप्ततितमं दशकं सद्विकम् ।



  1. 'शंसितो' क. पाठः.