पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
[ स्कन्धः - १
नारायणीये


रसेन ब्रह्मणा तिरस्कृतजाड्यं चिदानन्दैकरसमेव भवतीति । स्वच्छत्वादच्छादितपरसुखचिद्गर्भनिर्भासरूपं तद्वपुर्यदिति सम्बन्धः । तस्मिन्निति ‘स वा अयं ब्रह्म महद्विमृग्यम्', 'कृष्णस्तु भगवान् स्वयम्' इत्यादिभिः परचिदभेदेन प्रतिपादिते वपुषीत्यर्थः[१] । धन्याः अभ्युपगतभक्तिमार्गतयेतरमार्गोक्तबहुसाधनपरिश्रमरहिताः [२] । रमन्ते प्रेमलक्षणां भक्तिं कुर्वन्तीत्यर्थः । अत्र हेतुमाह – श्रुतिमतिमधुर इति । माधुर्ययुक्तत्वाच्छ्रवणस्मरणादिषु सकलेन्द्रियाह्लादक इत्यर्थः । अत एव सुग्रहे सुखग्राह्ये विग्रहे मूर्त्तौ ॥ ३ ॥

एवं भगवतः शुद्धसत्त्वमयी मूर्तिमुपपाद्य तस्या निष्कलब्रह्माभेदमुपपादयति---

निष्कम्पे नित्यपूर्ण निरवधिपरमानन्दपीयूषरूपे
 निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।
कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा
 कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन्! ॥ ४ ॥

 निष्कम्प इति । तत्र ब्रह्मणः सिन्धुसाम्यमापादयति चतुर्भिर्विशेषणैः । निष्कम्पे निर्विकारे, अन्यत्र[३] अक्षोभ्ये गम्भीरे इत्यर्थः । नित्यपूर्णे अखण्डे, अन्यत्र वर्षासु प्रभूतनाना[४]नदीजलौघे सति ग्रीष्मे तस्मिन्नसति चैकरूपे । निरवधिः कालतो देशत उपाधितश्चापरिच्छिन्नः परमानन्द एव पीयूषं मुक्तैरास्वादनीयत्वात्, तद्रूपे । अन्यत्र निरवधिः परमानन्दः रत्रक्चन्दनवनितादिसुखातिशायि सुखं यस्मात्, तस्य पीयूषस्य रूपं प्रकाश उत्पत्तिर्यस्मात्, स तथा । निलींनानामपुनरावृत्तिं गतानामनेकेषां मुक्तानां ब्रह्मसायुज्यं प्राप्तानामावलिः समूहः, तेन सुभगतमे अतिमनोहरे । अन्येषामपि मुमुक्षाजनक इति भावः । अन्यत्र मुक्तावलिभिः मुक्तारत्ननिकरैः सुभगतमे शोभिते[५] । निर्मलब्रह्मासिन्धाविति । ब्रह्मणो निर्मलत्वं मायातत्कार्योपरागराहित्यम् । सिन्धौ त्वनाविलत्वम् । एवम्भूते ब्रह्मसिन्धौ यः कल्लोलोल्लासः कल्लोलानां तरङ्गाणामुल्लासस्तेन[६] तुल्यम् । विमलतरं शुद्धं सत्त्वमित्यर्थः । अयमभिप्राय[७]:-


  1. 'र्थः । अ' ख. पाठः.
  2. 'ता धन्या र' ख. पाठ:.
  3. ’त्र सिन्धौ अ’ क पाठः.
  4. 'नाज' ख. पाठः.
  5. 'त इत्यर्थः । नि' क. पाठः.
  6. स्तत्तु' क. पाठः.
  7. 'यः त' ख. पाठ:.