सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - १]
११
'भगवन्महिमानुवर्णनम् ।

यथा तरङ्गाणां कल्लोलादिशब्दवाच्यत्वव्यतिरेकेण सिन्धोर्मेदं , एवं शुद्धसत्त्वस्यापि ब्रह्मणोऽभेद इति । अत्र प्रमाणमाह - आहुरिति । आचार्या इति शेषः । ते ह्याहुः- अथवा चिदानन्दजलनिघेरेकोऽभिनवस्तरङ्ग एव सत्त्वम्[] इत्यादि । नन्वेवं शुद्धसत्त्वस्य ब्रह्मानन्यत्वे भगवन्मूर्त: किमायातं, तत्राह - तदात्मेति । तत् सत्त्वमेवात्मा श्रीमूर्त्तिर्यस्य सः । त्वं कस्मान्नो निष्कलः निष्कलं ब्रह्मैव त्वमित्युक्तियुक्तिमतीत्यर्थः । नन्वेवं तर्हि सकलमूर्तिशब्दोऽनन्यगतेर्निरालम्बः स्यादित्याशङ्कयाह - सकल इति । त्वत्कलासु अंशावतारेवेव सकलशब्दः प्रयुज्यत इति शेषः । हे भूमन् ! परिपूर्ण ! त्वं तु निष्कलब्रह्मैवेत्यर्थः ॥ ४ ॥

 एवं भगवन्मूर्ते: स्वरूपोत्पत्तिं विमृश्य सम्प्रति तस्या उत्पत्तिं विमृशति-

निर्व्यापारोऽपि निष्कारणमज! भजसे यत् क्रियामीक्षणाख्यां
 तेनैवोदेति लीना प्रकृतिरसतिकल्पापि कल्पादिकाले ।
तस्याः संशुद्धमंश कमपि तमतिरोधायकं सत्त्वरूपं
 स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ ! वैकुण्ठ ! रूपम् ॥ ५ ॥

 निर्व्यापार इति । हे अज! विष्णो ! त्वं निर्व्यापारो निष्क्रियः सन्नपि ईक्षणाख्यां मायाप्रेरणात्मिकां क्रियां भजसे अङ्गीकरोपि । यथा अयस्कान्तमणिर्निष्क्रियोऽपि सन्निधिमात्रेण लोहधातुमाकर्षति, तद्वदित्यर्थः । निष्कारणं निर्गतं कारणं प्रयोजनं यस्मादिति क्रियाविशेषणम् । तव मायाप्रेरणे कारणमस्मदादिभिर्न ज्ञातव्यमिति भावः । एवं त्वमीक्षणाख्यां क्रियां भजस इति यत्, तेनैव कारणेन लीना द्विपरार्धावसाने त्वयि लयं प्राप्ता प्रकृतिर्माया उदेति प्रकाशते । अत्र लीनोदेतिशब्दौ प्रकृतेरुत्पत्तिविनाशाभावं सूचयत इति न तस्या अनादित्वहानिः । कदोदेतीत्यत आह - कल्पादिकाल इति । कल्पानां ब्रह्मणो दिनानामादिकाले आद्यदिनारम्भकाले ब्रह्मप्रलयावसान इत्यर्थः । न तु कल्पस्यादिकाले, तदा प्रकृतिलयोदयाभावात् । मायां विशिनष्टि - असतिकल्पेति । प्रायेणासती सदसत्त्वाभ्यामनिर्वचनीयेत्यर्थः । हे वैकुण्ठ ! विकुण्ठनिलय ! सः मायाप्रेरकस्त्वं तस्या मायायाः तं पूर्वोक्तं सत्त्वरूपं कमप्यंशं धृत्वा उद्धृत्य रूपं लीलाविग्रहं दधासि भक्तानुग्रहाय गृह्णासि । ननु विग्रहवांश्चत् संसारप्रसङ्ग इत्याशङ्कयाह - अतिरोधायकमिति । तत्र हेतुमाह - संशुद्धमिति । अयं भावः - शुद्धसत्त्वरूपस्य मायां-


  1. 'मू। न' ख, पाठः.