इति भागवतोक्तेः । एवम्भूतैर्भक्तैरुपास्यं विष्णुरूपमपि पञ्चविधं पुरुषब्रह्मगिरिशविष्णुनिर्गुणभेदात् । तत्र शुद्धसत्त्वमयं विष्णुरूपमेवोपास्यतममिति बोप्पदेवः ।
उपासनक्रमं तु वक्ष्यामः । एतत् सर्वं द्वितीय क्ष्लोकसूचितमुपरि चानुसन्दधतां
सुगमम् ॥ २ ॥
एवं विषयप्रयोजनप्रदर्शनेन श्रोतूनभिमुखीकृत्य तेपामुपासनासिद्धये भगवद्रूपं वर्णयन् भगवन्तं स्तौति –
सत्त्वं यत्तत् पराभ्यामपरिकलनतो निर्मलं तेन तावद् |
सत्त्वमिति । तत् प्रसिद्धम् । पराभ्यां रजस्तमोभ्याम् | परिकलनम् इतरेतरमेलनं, तदभावोऽपरिकलनं, तेन । निर्मलं शुद्धं सत्त्वं यत्, तेन तावदिति तेनैवोपादानकारणेन। भूतैर्महदादिक्रमेणोत्पन्नैः । भूतेन्द्रियैः पञ्चभूतैरेकादशेन्द्रियैः । एतच्च प्राणादीनामप्युपलक्षणम् । हे भूमन्निति सिंहावलोकितन्यायेनोपरिस्थमुपादीयते । एतैः स्वेच्छया विचितं ते तव वपुर्लीलाशरीरमित्यस्मिन्नर्थे प्रमाणतया व्यासस्य ‘मुनीनामप्यहं व्यास' इति तवात्मत्वेनाभिमतस्य वाक्यम् | बहुशो वारंवारं पुराणेषु श्रूयत इत्यय[१] । वाक्यं च - 'जगृहे पौरुषं रूपम्', 'विशुद्धं सत्त्वमूर्जितम्', 'सत्त्वं विशुद्धं क्षेमाय', 'नारायणकलात्मकम्', 'श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः इत्यादि[२] । तद् बहुशः श्रुतं वपुः । स्वच्छत्वात् स्फटिकवदतिनिर्मलतया । अच्छादिता अनुपहिता या परसुखचित् चिदानन्दैकरसं ब्रह्म, सा प्रतिबिम्बतः प्रविष्टा गर्भे यस्य, तदच्छादितपरसुखचिद्गर्भम् अत एव निर्भसरूपं च । वपुर्विशेषणमेतत् । अयं भावः - शुद्धसत्त्वमयस्य वपुषोऽतिस्वच्छतया तत्प्रविष्टया परानन्दचिदा तन्निर्भास्यांशस्य जाड्यस्य तिरस्कृतत्वात् परसुखचिदेकतामापन्नमिति । तदुक्तममृततरङ्गिण्यां – त्वद्वपुरतिस्वच्छतया स्वस्मिन् प्रतिफलता चिदानन्दैक-