दिङ्मात्रं प्रदर्शितामिति । *ननु भक्तियोगपरतया भक्तैरादरणयिमिदमित्युक्तम् ।
अथ केयं भक्तिर्नाम । उच्यते । उपायपूर्वकं भगवति मनसः स्थिरीकरणं भक्तिः ।
स च भक्तिरसो विहिताविहितकर्मज्ञानमिश्रादिभेदेन बहुधा | पुनरपि शृङ्गाराधुपायभेदान्नवधेति बोप्पदेवः । अन्ये त्वेवं भक्तावपि वाच्यमिति वदन्तो भक्तेररसतामाचक्षते । तथाहि – भक्तिर्न रसः, रसलक्षणाभावाद्,
“विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । |
इति हि रसलक्षणम् । यथा शृङ्गारादिरसे रत्यादिः स्थायी भावः । नायिकानायकचन्द्रमन्दानिलादयो विभावाः । कटाक्षवीक्षणादयोऽनुभावाः । स्तम्भस्वेदादयः सात्त्विकाः । निर्वेदग्लान्यादयो व्यभिचारिणः[१] । एवंविधविभावादिसंयोगाभावान्न भक्ती रसतामापद्यत इति, मैवम्, अत्रापि रससामग्रीसद्भावात् । केनाप्युपायेन श्रीकृष्णे मनोनिवेशः स्थायी भावः । 'तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेद्' (स्क. ७. अ. १. क्ष्लो. ३१.) इति श्रीभागवतवचनात् । तत्रोपायो नवधा । तदुक्तं बोप्पदेवेन ‘भक्तिरसस्यैव हास्यशृङ्गारकरुणरौद्रभयानकबीभत्सशान्ताद्भुतवीररूपेणानु[२]भवाद्' इति, 'व्यासादिभिः कविभिर्वर्णितस्य विष्णोर्विष्णुभक्तानां वा चरित्रस्य नवरसात्मकस्य श्रवणादिना जनितश्चमत्कारो भक्तिरस' इति च । अत एते भगवति प्रयुज्यमाना भक्तिरसतामापद्यन्ते । गोविन्दो गोप्यश्चालम्बनविभावाः । चन्द्र[३]मन्दानिलचरित्रश्रवणादय उद्दीपनविभावाः । कटाक्षबीक्षणस्तम्भस्वेदादयोऽनुभावाः । निर्वेदग्लानिशङ्काघृत्यादयो यथायोगं व्यभिचारिणः[४] । एवं सामग्रीसद्भावेऽपि भक्तेर्बहिष्करणं स्वयं भक्तिरसास्वादबहिरङ्गतामात्रशरणम् । नच वाच्यमसर्वविषयत्वाद् भक्ते रसपदव्यनारोह इति । तथाच श्रोत्रियब्रह्मचार्याद्यविषयतया शृङ्गारादीनामप्यरसतापातादिति सिद्धं भक्ते रसत्वम् । एवंविधभक्त्यनुभ[५]वाद् भक्ता अपि नवविधाः ।
“गोप्यः कामाद् भयात् कंसो द्वेषाच्चैद्यादयो नृपाः । |
(स्क. ७. अ. १. क्ष्लो. ३०.)
* 'ननु' इत्यारभ्य 'सुगमम्' इत्यन्तं तृतीयक्ष्लोकव्याख्यानमध्ये' उपरिस्थमुपादीयते' इत्येतदन्तं व्यतिक्षिप्तं मुद्रितपुस्तके ।