पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - १]
भगवन्महिमानुवर्णनम् ।


बत । वयं त्वित्यादि समानम् । एवञ्च स्तोत्रे अधिकारिविषयप्रयोजनानि दर्शितानि । अत्र च 'धर्म: प्रोज्झितकैतवोऽत्र' = 'तन्वा वाचा धिया वा भजति', 'वास्तवं वस्तु' = 'दुर्लभ्यवस्तुनि', ' किं वा परैः' = 'अन्यत् तन्वा वाचा धिया वा भजति बत’, ‘तापत्रयोन्मूलनं'='विश्वपीडापहत्यै', 'सद्यो हृद्यवरुध्यते'='स्थिरतरमनसा’, ‘ईश्वरः’=‘निश्शेषात्मानमि’त्यादिपदानामर्थसाम्यादस्य श्रीभागवतद्वितीयक्ष्लोकार्थता च द्रष्टव्या । अयं चापरोऽर्थः सहृदयहृदयमनुरञ्जयति - दुर्लभ्यं वस्तु श्रीभागवतं पुराणम् । तस्मिन्नेवं ब्रह्मनारदव्यासपरम्परया[१] सुलभतया हस्तलब्धे सत्यपि जनोऽन्यत् पुराणं काव्यादि वा भजतीति यत्, सेयं क्षुद्रता स्फुटैव । एते तावद् वयं तु तन्वा परिमितया श्रीभागवतार्थसङ्क्षेपणरूपया वाचा एनं श्रीभागवतप्रधानप्रतिपाद्यं गुरुपवनपुराधीशमेवाश्रयामः गुरुपवनपुराधीशस्तोत्ररूपेण श्रीभागवतार्थं सङ्क्षिपाम इति भावः । किं भागवतार्थैकदेशं, नेत्याह -- निश्शेषात्मानमिति । निश्शेषो दशलक्षणलीलालक्षणद्वादशस्कन्धार्थरूप आत्मा यस्य । अवान्तरप्रयोजनमाह – विश्वेति । विश्वेषां स्त्रीशूद्रादीनामपि पीडापहत्यै मोक्षाय । स्तोत्रपठने हि स्त्रीशूद्रादीनामप्यधिकारः । स्थिरतरमनसेति मनसः सारोद्धारस्थिरीकरणेनास्य स्तोत्रस्य सारसङ्ग्रहरूपत्वं व्यज्यते । तन्वा वाचेति साधिकसहस्रसङ्खपरिमितपद्यात्मकत्वं धियेति भगवत्स्मरणवाचिना तदनुग्रहलब्घमाधुर्यादिगुणयुक्तत्वं च व्यज्यते । एवञ्चैवंविधं स्तोत्रं रचयाम इति चिकीर्षितप्रतिज्ञापि कृता । अस्मिन् पक्षे 'दुर्लभ्यवस्तुनि'='निगमकल्पतरोः फलं भागवतं रसं', 'सुलभतया हस्तलब्धे’=‘शुकमुखाद् भुवि गलितं', 'जनोऽन्यद् भजतीति यत् सा क्षुद्रतैव’=‘पिबत भागवतम्’, ‘एते वयं' = 'रसिका भावुका' इत्यादिपदानां बिम्बप्रतिबिम्बवदर्थसादृश्यप्रतीतेः श्रीभागवततृतीयक्ष्लोकार्थोऽप्यनेन परामृष्ट इति द्रष्टव्यम् । क्ष्लोकद्वयार्थस्यैकेनोपादानमपि अस्य सङ्ग्रहरूपत्वं द्योतयति । इदं च स्तोत्रं भक्तियोगपरतया सर्वैरादरेण पठनीयमित्य[२]प्यनेनैव सूचितं, भक्तियोगप्राधान्यस्याप्यनेनैव सूच्यमानत्वात् । तथाहि - दुर्लभ्यं वस्तु भक्तियोगाख्यं, तस्मिन् हस्तलब्धे सत्यप्यन्यद् ज्ञानं कर्म वा भजतीति यत्, सा क्षुद्रतैव । अन्यदूहनीयम् । एवं भगवत्कृपापात्रीभूतश्रीनारायणकविवाक्यस्यानेकार्थगम्भीरमहिम्नो महिमेति


  1. ’या हृ' ख, पाठः.
  2. 'त्यने' ख. पाठः.