पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[स्कन्ध:- १.
नारायणीये


प्त्योः सौकर्ये द्योत्यते । दुर्लभ्यवस्तुन्येवं सुलभतया हस्तलब्धे सत्यपि अन्यद् देवतान्तरं विषयादिकं वा तन्वा वाचा घिया वा भजति जन इति यत्, तद् बत कष्टम्[१] । इयं क्षुद्रता [२]असारतैव, अविवेकितैवेति यावत् । स्फुटा सर्वसम्मतेत्यर्थः । विवेकिनो विशेषमाह - एत इति । वयमित्यात्मनि बहुवचनम् । एत इति स्वस्य भगवद्भजनसंरम्भं दर्शयति । यद्वा एते वयमिति श्रोतारोऽपि गृह्यन्ते । एते वयं तावत् तु तथा क्षुद्रतां न कुर्मः, किन्तु स्थिरतरेण एतद्भजनमेव श्रेय इति निश्चितेन मनसा गुरुपवनपुराधीशं परं ब्रह्मैव आश्रयामः सेवामहे । अत्र ये सकामास्तान् प्रति फलं दर्शयति -- विश्वेति । विश्वपीडानामाध्यात्मिकादीनां सर्वपीडानाम्, अपहत्यै नाशाय | अथवा विश्वपीडापहतिर्मोक्षः, तस्यैव सकलपीडानिवृत्तिरूपत्वात् । अनेन च येऽकामनयैनं सेवन्ते, त उत्तमाधिकारिणः, ये तु फलकामनया सेवन्ते, ते मध्यमाधिकारिणः, ये तु भेददृष्ट्यान्यद् देवतान्तरं सकामाः सेवन्ते, तेऽधमाधिकारिण इति स्तोत्रेऽधिकारिभे[३]दोऽपि प्रदर्शितः । विश्वपीडापहत्यै इति प्रयोजनमुक्तम् । निश्शेषात्मानमिति भगवद्विशेषणेन विषयो निर्दिश्यते । निश्शेषाणां चराचराणाम् आत्मा कारणम्, अथवा निश्शेषश्चराचरप्रपञ्च आत्मा स्वरूपं यस्य स तथा सर्वात्मा, यद्वा निश्शेषाणामात्मा अन्तर्यामी, यदिवा निश्शेषाणां ब्रह्मविष्णुगिरीशादीनाम् आत्मा स्वरूपभूतः, तं सर्वदेवमयमित्यर्थः । अत्र क्रियारूपा साधनभक्तिरपि विषयत्वेन निर्दिश्यते- तन्वा वाचा धिया वेति । तदुक्तं -

“भक्तिर्हि द्विविधा प्रोक्ता साध्यसाधनभेदतः ।
साध्या ह्यहैतुकी प्रीतिः क्रिया स्यात् साधनात्मिका ॥
सा पुनर्नवधा प्रोक्ता पुराणे साधनात्मिका । "

इति । अत्र वाचेति कीर्तनमुच्यते, तन्वेत्यर्चनवन्दननमस्काराः, धियेति श्रवणस्मरणदास्यसख्यात्मनिवेदनानीति । अथवा दुर्लभ्यं वस्तु मनुष्यजन्म तस्मिन्[४] । एवं ब्राह्मण्यविद्यापटुकरणत्वाद्याश्रयतया हस्तलब्ध इति कैङ्कर्यादिराहित्यं द्योत[५]यति । एवं सत्यपि अ॒न्यद् अन्यशरीरेष्वपि सुलभं विषयादि जनो भजति


  1. 'म् । सा इ' क. पाठ:.
  2. 'अवि' क. पाठः.
  3. 'रभेदो द' क. पाठः.
  4. 'न् ब्र' क. पाठ:.
  5. 'त्यते' क. पाठः.