द्यातत्कल्पितशरीरादिसम्बन्धस्यासम्भावनीयत्वादिति भावः । एवञ्च मुक्तावस्थाया
अजन्यत्वान्न पुनरावृत्तिरिति भावः । एवं सान्द्रानन्दावबोधात्मकं तत्त्वमिति पदद्वयेन सच्चिदानन्दं ब्रह्मेति स्वरूपलक्षणमुक्तम् । अनुपमितपदेन तस्याद्वितीयत्वमुक्तम् । कालदेशावधिभ्यां निर्मुक्तमिति ब्रह्मणो जीवैक्येऽपि कर्तृत्वादिजीवधर्मासम्भव उक्तः । अर्थात् तटस्थलक्षणमप्युक्तम् । निगमशतसहस्रेण निर्भास्यमानमित्युपनिषदां प्रामाण्यं चोक्तम् । एवम्भूतं ब्रह्म गुरुपवनपुरे साक्षाद् भातीत्यतिप्रयाससाध्यस्य ब्रह्मदर्शनस्य सकलजनसुसम्पाद्यत्वमुक्तम् | हन्त भाग्यं जनानामिति
ब्रह्मदर्शनाधिकारस्य सुकृतैकमूलत्वं चोक्तम् । दृष्टमात्रे अस्पष्टमिति ब्रह्मानन्दानुभवस्य श्रवणादिसाध्यत्वमुक्तम् । पुनरुरुपुरुषार्थात्मकमिति संसारदुःखोच्छेदो
ब्रह्मानन्दावाप्तिश्चेति ब्रह्मदर्शनस्य फलद्वितयं दर्शितम् । नित्यमुक्तमिति ब्रह्म प्राप्तस्य ‘अनावृत्तिः शब्दाद्’ (ब्र. सू. ४.४.२२) इति न्यायेनापुनरावृत्तिश्च दर्शिता[१]
एवं ब्रह्मण उपास्यत्वोक्तेः 'ब्रह्म भाति, परं धीमही' त्यादिपदानां तात्पर्यैक्यादप्यनेन क्ष्लोकेन श्रीभागवतप्रथमक्ष्लोकार्थ एव प्रदर्शितः । अत्र च स्तोत्रे ब्रह्म प्रतिपाद्यत्वेन विषयः, तत्प्राप्तिः प्रयोजनं, भाग्यवन्तोऽधिकारिण इत्यपि सूचितम् ॥ १ ॥
एवं तावन्मङ्गलाचरणपरेण प्रथमक्ष्लोकेनार्थात् प्रतिपादिते [२] अपि विषयप्रयोजने श्रोतृजनसुखप्रतिबोधनाय मुखतः प्रतिपादयति –
एवं *दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत् |
एवमिति । अ[३]त्राविशिष्टेन वस्तुशब्देन परमार्थसट्ब्रह्मोच्यते, मिथ्यार्थे विशिष्टस्यैव प्रयोगदर्शनात् । तद् दुर्लभ्यं दुःखेन ज्ञातुं प्राप्तुं वा शक्यं, साधनचतुष्टयसम्पन्नैर्गुरूपसत्तिद्वारा श्रवणमननादिभिरेवावगन्तुं शक्यत्वात् तस्मिन् । एवम् उक्तेन प्रकारेण सुलभतया अनायासेन । हस्तलब्ध इत्यनेन तज्ज्ञानप्रा-
दुःशब्दस्य लभ्यशब्देन समासः.