पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ६१]
२१५
यज्वपत्न्युद्धरणवर्णनम् ।


इति नन्वनुगृह्य वल्लर्वीपिनान्तेओपु पुरेव सञ्चरन् ।
करुणाशिशिरो हरे ! हर त्वरया में सकलामयावलिम् ॥ ११ ॥

 इतीति । करुणया भक्तवात्सल्येन शिशिर आर्द्रहृदयः ॥ ११ ॥

इति गोपीवस्त्रापहारवर्णनं पष्टितमं दशकं सैकम् ।


ततश्च वृन्दावनतोऽतिदूरतो वनं गतस्त्वं खलु गोपगोकुलैः ।
हृदन्तरे भक्ततरद्विजाङ्गनाकदम्वकानुग्रहणाग्रहं वहन् ॥ १ ॥

 तत इति । वृन्दावनतो बृन्दावनादतिंदूर तोऽतिदूरे ॥ १ ॥

ततो निरीक्ष्याशरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् ।
अदूरतो यज्ञपरान् द्विजान् प्रति व्यसर्जयो दीदिवियाचनाय तान् ॥

 तत इति । अशरणे गृहरहिते किशोरलोकं बालजनं तृषा पिपासया क्षुधा चाकुलम् । अदूरतस्तत्प्रदेशात् समीपे यज्ञपरान् कर्मप्रधानतया भक्तिज्ञानविमुखान् दीदिवियाचनायान्नयाचनाय तान् गोपान् व्यसर्जयः प्रेषयामासिथ ॥ २ ॥

गतेष्वथो तेष्वभिधाय तेऽभिधां कुमारकेष्वोदनयाचिषु प्रभो ! ।
श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं न किश्चिदूचुश्व महीसुरोत्तमाः ॥ ३ ॥

 गतेष्विति । तेऽभिधां कृष्णो व ओदनं याचत इति तव नामाभिधाय । श्रुतौ स्थिरा निश्चित बुद्धयोऽप्यश्रुतिं श्रवणाभावमभिनिन्युरभिनीतवन्तः । महीसुरोत्तमा ब्राह्मणश्रेष्ठम्मन्याः किञ्चिद् दास्यामि नेति वा नोचुरपि ॥ ३ ॥

अनादरात् खिन्नधियो हि बालकाः समाययुर्युक्तमिदं हि यज्वसु ।
चिरादभक्ताः खलु ते महीसुराः कथं हि भक्तं त्वयि तैः समर्यते ॥४॥

 अनादरादिति । यज्वसुं यायजूकेष्विदमर्थिनिराकरणं युक्तम् । भक्तमन्नम् ॥ ४ ॥