पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
[स्कन्धः - १०
नारायणीये


मृदु स्मितं यस्मिस्तस्मिस्त्वयि ब्रुवति सति वधूजनैर्व्यामुमुहे तत् कर्तुं मा मैवमिति वदितुमप्यसमर्था बभूवुरित्यर्थः ॥ ६ ॥

अयि जीव चिरं किशोर ! नस्तव दासीरवशीकरोषि किम् ।
प्रदिशाम्वरमम्बुजेक्षणेत्युदितस्त्वं स्मितमेव दत्तवान् ॥ ७ ॥

 अयीति । अयि किशोर कुमारक! त्वं चिरं जीव, तव दासीः प्रोक्तकारिणीर्नः किं किमर्थमवशीकरोषि परवशाः करोषि, अम्बरं प्रदिश देहीत्युदितो याचितस्त्वं स्मितमेव दत्तवान् नाम्बरमपि । अयि किशोर! अप्राप्तविवाह ! तव दासीः प्रेमार्हाः किमवशीकरोषि वशीकुरु परिगृहाण, अम्बरं प्रदिश, नः पतिस्त्वं, हे अम्बुजेक्षण! त्वत्कटाक्षविरहे वयं पराधीनजीविता इति साभिप्रायमिवोदितत्वात् त्वं तदनुमोदनरूपं मन्दस्मितं दत्तवान् ॥ ७ ॥

अधिरुह्य तटं कृताञ्जलीः परिशुद्धाः स्वगतीर्निरीक्ष्य ताः ।
वसनान्यखिलान्यनुग्रहं पुनरेवं गिरमप्यदा मुदा ॥ ८ ॥

 अधिरुह्येति । परिशुद्धाः त्वन्नमनरूपप्रायश्चित्ताद् विवस्त्रालवनरूपव्रतभङ्गदोषान्निवृत्ताः स्वगतीरात्मशरगाः । अनुग्रहरूपामेवं वक्ष्यमाणरूपां गिरम[यदाः दत्तवान् ॥ ८ ॥

विदितं ननु वो मनीषितं वदितारस्त्विह योग्यमुत्तरम् ।
यमुनापुलिने सचन्द्रिकाः क्षणदा इत्यवलास्त्वमूचिवान् ॥ ९ ॥

 विदितमिति । मनीषितं सङ्कल्पः । इह वो मनीषिते योग्यमुत्तरं तथास्त्विति इदानीं नाहं वदामि । किन्तु यमुनापुलिने सचन्द्रिकाः क्षणदा भवतीभ्यो योग्यमुत्तरं केवलं क्रिययैव वदितारो वदिष्यन्तीति ॥ ९ ॥

उपकर्ण्य भवन्मुखच्युतं मधुनिष्यन्दि वचो मृगीदृशः ।
प्रणयादयि वीक्ष्य वीक्ष्य ते वदनाब्जं शनकैर्गृहं गताः ॥ १० ॥

 उपकर्ण्ये॑ति । उपकर्ण्य श्रोत्राञ्जलिभिः पीत्वा ॥ १० ॥