पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ६०]
२१३
गोपीवस्त्रापहारवर्णनम् ।


मदनातुरचेतसोऽन्वहं भवदङघ्रिद्वयदास्यकाम्यया ।
यमुनातटसीम्नि सैकती तरलाक्ष्यो गिरिजां समार्चिचन् ॥ १ ॥

 मदनेति । सैकतीं सिकतामयीं प्रतिमां समार्चिचन् पूजयामासुः ॥ १ ॥

तव नामकथारताः समं सुदृशः मातरुपागता नदीम् ।
उपहारशतैरपूजयन् दयितो नन्दसुतो भवेदिति ॥ २ ॥

 तवेति । तव नाम्नि कथायां च रता नाम कीर्तयन्त्यः कथाः कथयन्त्यश्च समं सम्भूयोपहारशतैर्जलगन्ध पुष्पधूपादिभिर्नन्दसुतो दयितो भवेदिति प्रार्थयन्त्य इति शेषः ॥ २ ॥

इति मासमुपाहितव्रतास्तरलाक्षीरभिवीक्ष्य ता भवान् ।
करुणामृदुलो नदीतटं समयासीत् तदनुग्रहेच्छया ॥ ३ ॥

 इतीति । उपाहितव्रता धृतव्रताः ॥ ३ ॥

नियमावसितौ निजाम्बरं तटसीमन्यवमुच्य तास्तदा ।
यमुनाजलखेलनाकुलाः पुरतस्त्वामवलोक्य लजिताः ॥ ४ ॥

 नियमेति । नियमावसितौ व्रतावसाने निजाम्बरमवमुच्य नग्ना यमुनायां जलखेलन उदकवाद्यादावाकुलाश्चलिताः ॥ ४ ॥

त्रपया नमिताननास्वथो वनितास्वम्बरजालमन्तिके ।
निहितं परिगृह्य भूरुहो विटपं तं तरसाधिरूढवान् ॥ ५॥

 त्रपयेति । त्रपया दयितसन्निधौ विवस्त्रताजनितलज्जया | भूरुहो वृक्षस्य ॥ ५ ॥

इह तावदुपेत्य नीयतां वसनं वः सुदृशो ! यथायथम् ।
इति नर्ममृदुस्मिते त्वयि ब्रुवति व्यामुमुहे वधूजनैः ॥ ६ ॥

 इहेति । हे सुदृशः ! इहोपेत्य वो वसनं यथायथं स्वं स्वं नीयताम् | नर्मणा