पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
[स्कन्धः - १०
नारायणीये


निर्विशङ्कभवदङ्गदर्शिनी: खेचरी: खगमृगान् पशूनपि ।
त्वत्पदमणयि काननं च ता धन्यधन्यमिति नन्वमानयन् ॥ ७ ॥

 निर्विशङ्केति । निर्विशङ्कभवदनङ्गदर्शिनीस्तिरस्कृतशरीरतया सन्निहिततया निमेषरहिततया च नित्यं भवदङ्गप्रत्यङ्गदर्शनशीलाः । त्वत्पदप्रणायि भवत्पदाम्बुजसंसर्गि काननमपि धन्यधन्यम् अतिशयेन भाग्यवदिति ता व्रजस्थाः पशुपाङ्गना अमानयन् ॥ ७॥

आपिवेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा ।
दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समासुहन् ॥ ८ ॥

 आपिबेयमिति । वेणुना भुक्तो रसविशेषो यस्मिन् तदधरामृतम् । तद् दूरतोऽम्माकं न सम्भवति । तत्र दुराशया कृतमलम् । समामुहन् सम्मुमुहुः ॥ ८ ॥

प्रत्यहं च पु[१] नरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् ।
बद्धरागविवशास्त्वयि प्रभो ! नित्यमापुरिह कृत्यमूढताम् ॥ ९ ॥

 प्रत्यहमिति । अनुग्रहाद्[२] न तूपद्रवात् । कुतः, यतस्त्वयि बद्धरागविवशाः शृङ्गाराख्यप्रेमलक्षणभक्तिविवशा इह् कृत्यमूढताम् इदं मयैव कर्तव्यमित्यवधारणविधुरतामापुः ॥ ९॥

रागस्तावज्जायते हि स्वभावान्मोक्षोपायो यत्नतः स्यान्न वा स्यात् ।
तासां त्वेकं तद् द्वयं लब्धमासीद् भाग्यं भाग्यं पाहि मां मारुतेश ! ॥१०॥

 राग इति । रागस्तावत् स्त्रीणां पुंसां वा मिथः स्वभावादेव जायते । मोक्षोपायस्त्वीश्वरे प्रेम केषाञ्चिदेव प्रयत्नतः स्याद्वा न वा । तासां व्रजाङ्गनानां तद्दूयं कामसुखदं कान्तप्रेम मोक्षसुखदमीश्वरप्रेम चैकं लब्धमासीद् एकस्य कृष्णस्यैव कान्तत्वादीश्वरत्वाच्च । अहो भाग्यं भाग्यम् ॥ १० ॥

इति वेणुगानवर्णनम् एकोनषष्टितमं दशकम् ।



  1. ‘मुहुरि’ क. पाठः.
  2. 'निरुप' ख. ग. पाठ:.