पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ५९]
२११
वेणुगानवर्णनम् ।


मन्मथोन्मथितमानसाः क्रमात् त्वद्विलोकनरतास्ततस्ततः ।
गोपिकास्तव न सेहिरे हरे ! काननोपगतिमप्यहर्मुखे ॥ २ ॥

 मन्मथेति । गोपिकास्ततस्ततः पुनः पुनः क्रमाद् प्रति सक्रमोत्कर्षम् । अहर्मुखेऽपि न सर्वदा, काननोपगतिमपि न विदूरगमनं, न सेहिरे न मर्षितवत्यः ॥ २ ॥

निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः ।
वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयामिरेमिरे ॥ ३

 निर्गत इति । निर्गते प्रस्थिते भवति त्वायि दत्ता निक्षिप्ता दृष्टयो यासाम् अत एव त्वद्गतेन मनसा त्यक्तगृहकृत्या दूरतोऽपि वेणुनादमुकर्ण्य श्रुत्वा त्वद्विलासस्य कथयान्योन्यकथनेनाभिरेमिरे कालं निन्युः ॥ ३ ॥

काननान्तमितवान् भवानपि स्निग्धपादपतले मनोरमे।
व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् ॥ ४ ॥

 काननान्तमिति । व्यत्ययेन व्यत्यासेनाकलितो धृतौ पादौ यस्मिंस्तथा आस्थितो वेणुनालिकां प्रत्यपूरयत ॥ ४ ॥

मारवाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् ।
द्रावणं च दृषदामपि प्रभो! तावकं व्यजनिं वेणुकूजितम् ॥ ५ ॥

 मारेति । धुतं जनितकंम्पस्वेदादिकं खेचरीकुलं येन । दृषदामुपलानामपि द्रावणं द्रवणसाधनं व्यजनि जातम् ॥ ५ ॥

वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवम् ।
तत् स्थितं तब परोक्षमप्यहो संविचिन्त्य मुमुहुर्व्रजाङ्गनाः ॥ ६॥

 वेण्विति । व्रजाङ्गना गोप्यस्तद् व्यत्यस्तपादं तव स्थितमवस्थानं परोक्षमप्रत्यक्षमपि संविचिन्त्य मुमुहुः ॥ ६ ॥