पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०
[स्कन्ध: - १०
नारायणीये



विलासयुक्तम्। सन्तापशान्त्या सस्यसम्पत्त्या वा हर्षदाम्। क्षितिधरकुहरेषु गोवर्धनगुहासु स्वैरवासी क्रीडन् व्यनैषीः ॥ ८ ॥

कुहरतलनिविष्टं त्वां गरिष्ठं गिरीन्द्रः
 शिखिकुलनवकेकाकाकुभिः स्तोत्रकारी ।
स्फुटकुटजकदम्बस्तोमपुष्पाञ्जलिं च
 प्रविदधदनुभेजे देव ! गोवर्धनोऽसौ ॥ ९ ॥

 कुहरेति । कुहरतलनिविष्टमात्मगुहाश्रितं गरिष्ठं महानुभावं त्वामीश्वरं गिरन्द्रिो गोवर्धनः शिखिकुलानां नवा वर्षारम्भोद्गताः केकास्तद्रवा एव काकवो भक्त्यतिशय जनितोक्तिविशेषास्ताभिः स्तोत्रकारी स्फुटानां विकसितानां कुटजानां गिरिमल्लिकाकुसुमानां कदम्बकुसुमानां (च) स्तोमेन समूहेन पुष्पाञ्जलिं प्रविदधत् कुर्वन्ननुभेजे उपासाञ्चके |॥ ९ ॥

अथ शरदमुपेतां तां भवद्भक्तचेतो-
 विमलसलिलपूरां मानयन् काननेषु ।
तृणममलवनान्ते चारु सञ्चारयन् गाः
 पवनपुरपते! त्वं देहि मे देहसौख्यम् ॥ १० ॥

 अथेति। भवद्भक्तचेतोबद् विमलः सलिलपूरो यस्यां तामभिसरन्तीं नायिकामिवोपेतां शरदं मानयन् । तृणं सञ्चारयन् भक्षयन् । मे देहसाख्यमारोग्यम्, अथवा देहसौख्यं विदेहकैवल्यम् ॥ १० ॥

इति गोगोपानां दावाग्निमोक्षवर्णनम् ऋतुवर्णनं च

अष्टपञ्चाशं दशकम् ।


त्वद्वपुर्नवकलायकोमलं प्रेमदोहनमशेषमोहनम् ।
 ब्रह्म तत्त्व पर चिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्बहं स्त्रियः ॥ १ ॥

 त्वादिति । त्वद्वपुर्ब्रह्म, तच्च तत्त्वपरचिन्मुदात्मकं सच्चिदानन्दात्मकम् । अतः प्रेमदोहनं रागवर्धनम् । स्त्रियो गोप्यः सम्मुमुहुः ॥ १ ॥