पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ५८]
२०९
ऋतुवर्णनम् ।


ववृतिरे स्थिता आसन् । भगवता योगैश्वर्येण पूर्वस्थानं नीतास्त इति ज्ञातव्यम् ॥ ५ ॥

जय जय तव माया केयमीशेति तेषां
 नुतिभिरुदितहासो बद्धनानाविलासः ।
पुनरपि विपिनान्ते प्राचर: पाटलादि-
 प्रसवनिकरमात्रग्राह्यधर्मानुभावे ॥ ६ ॥

 जयेति । हे ईश! जय जय लोकोत्तरो भूयाः । केयं तव माया, यत ऐषीकस्था वयं मीलिताक्षाः सन्तो भाण्डीरवटमूलस्थाः स्मः । पाटलेति । पाटलशिरीषादितरुकुसुममात्रेण ग्राह्यो घर्मानुभाव ऊष्मा यस्मिंस्तस्मिन् प्राचरः सञ्चरणं चकृषे ॥ ६ ॥

त्वयि विमुखमिवोच्चैस्तापभारं वहन्तं
 तव भजनवदन्तः पङ्कमुच्छोषयन्तम् ।
तब भ्रुजवदुदश्चद्भूरितेजःप्रवाहं
 तपसमयमनैषीर्यामुनेषु स्थलेषु ॥ ७ ॥

 त्वयीति । त्वं यामुनेषु स्थलेषु यमुनातीरेषु क्रीडन् तपसमयं ग्रीष्मकालमनैषीः । तपसमयं विशिनष्टि — त्वयीति । त्वयीश्वरे विमुखं सेवारहितमिव तापभारं वहन्तं प्रापयन्तम् । असेवकपक्षे तापभारं चित्तसन्तापं वहन्तं दधतम् । तव भजनवदन्तर्नद्यादेः मनसि वा पङ्कं कर्दमं दुरितं वा । तपसमयपक्षे तेज आतपः अन्यत्र पराक्रमः ॥ ७ ॥

तदनु जलदजालैस्त्वद्वपुस्तुल्यभाभि-
 र्विकसदमलविघत्पीतवासोविलासैः ।
सकलभुवनभाजां हर्षदां वर्षवेलां
 क्षितिधरकुहरेषु स्वैरवासी व्यनैषीः ॥ ८॥

 तदन्विति । त्वद्वपुस्तुल्या भाः श्यामला दीप्तिर्येषाम् । विकसन्त्यः शोभमाना अमला विघुत एव पीतं वासस्तद्विलासाः शोभा येषाम् । त्वद्वपुरपि पीतवासो-