पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०८
[स्कन्धः - १०
नारायणीये


तव विरहविषण्णा ऊष्मलग्रीष्मताप-
 प्रसरविसरदम्भस्याकुलाः स्तम्भमापुः ॥ २ ॥

 अनधिगतेति । अनधिगतमप्राप्तं निदाघक्रौर्यं ग्रीष्मकालभव ऊष्मा यस्मिंस्तस्माद् बृन्दावनान्ताद् बहिर्देशमिदमैषीकाख्यं काननमुपयाताः तव विरहेण विषण्णाश्च ऊष्मलो यो ग्रीष्मस्तत्तापप्रसरैर्विसरदम्भसि नष्टजल इति बहिर्देशविशेषणम् । अथवोष्मलग्रीष्मतापप्रसरेण विसरन्त्या व्याप्तयाम्भस्यया पिपासयाकुलाः स्तम्भं निश्चेष्टतामापुः प्रापुः ॥ २ ॥

तदनु सह सहायैर्दूरमन्विष्य शौरे !
 गलितसरणिमुञ्जारण्यसञ्जातखेदम् ।
पशुकुलमभिवीक्ष्य क्षिप्रमानेतुमारात्
 त्वयि गतवति ही ही सर्वतोऽग्निर्जजृम्भे ॥ ३ ॥

 तदन्विति । गलितसरणौ भ्रष्टमार्गे मुञ्जाख्यतृणप्रधानेऽरण्ये । त्वय्यारात् समीपं गतवति ही ही कष्टं कष्टं दवाग्निः सर्वतो गोप[१] गवां परितो जज़म्भे प्रज्वलितोऽभूत् ॥ ३ ॥

सकलहरिति दीप्ते घोरभाङ्कारभीमे
 शिखिनि विहतमार्गा अर्धदग्धा इवार्ताः ।
अहह भुवनवन्धो ! पाहि पाहीति सर्वे
 शरणमुपगतास्त्वां तापहर्तारमेकम् ॥ ४ ॥

 सकलेति । सकलहरित्यष्टसु दिक्षु । विहतमार्गा बहिर्गन्तुमपारयन्तस्त्वां शरणमुपगताः ॥ ४॥

अलमलमतिभीत्या सर्वतो मीलयध्वं
 दृशमिति तव वाचा मीलिताक्षेषु तेषु ।
क्कनु दवदहनोऽसौ कुत्र मुञ्जाटवी सा
 सपदि ववृतिरे ते हन्त भाण्डीरदेशे ॥ ५ ॥


 अलमिति । सर्वतः सर्वे सपदि पुनर्नयनोन्मीलनानन्तरमेव भाण्डीरदेशे


  1. 'पगोपीः प’ ख. ग. पाठः.