पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१६
[स्कन्धः - १०
नारायणीये


निवेदयध्वं गृहिणीजनाय मां दिशेयुरन्नं करुणाकुला इमाः ।
इति स्मितार्दं भवतोरेता गतास्ते दारका दारजनं ययाचिरे ॥ ५ ॥

 निवेदयध्वमिति । इमा यज्वपत्न्यः अन्नं दिशेयुर्दधुरितीरिता उक्तास्ते दारकाः कुमारा दारजनं गृहिणीजनं ययाचिरे याचितवन्तः ॥ ५ ॥

गृहीतनाम्नि त्वयि सम्भ्रमाकुलाश्चतुर्विध भोज्यरसं प्रगृह्य ताः ।
चिरं धृतत्वत्प्रविलोकनाग्रहाः स्वकैर्निरुद्धा अपि तूर्णमाययुः ॥ ६ ॥

 गृहीतेति । गृहीतनाम्नि कृष्णोऽस्मन्मुखेन भवतीरोदनं याचत इति त्वन्नामश्रवणमात्र एव ता दारजनाश्चतुर्विधं भोज्यखाद्यपेयलेह्यरूपं भोज्यरसं रसवद् भोज्यम् । स्वकैर्भर्त्रादिमिर्निरुद्धा अपि तूर्णमायुः ॥ ६ ॥

विलोलपिञ्छं चिकुरे कपोलयोः समुल्लसत्कुण्डलमार्द्रमीक्षिते ।
निघाय बाहुं सुहृदंससीमनि स्थितं भवन्तं समलोकयन्त ताः ॥ ७॥

 विलोलेति । ईक्षिते कटाक्षे आर्दं वात्सल्यातिशयजनितानन्दजलार्द्रम् ॥ ७ ॥

तदा च काचित् त्वदुपागमोघता गृहीतहस्ता दयितेन यज्वना ।
तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेश कैवल्यमहो कृतिन्यसौ ॥ ८ ॥

 तदेति । तदा इतरास प्रस्थितासु काचिद् यज्वपत्नी त्वदुपगमे उद्यता यज्वना गृहीतहस्ता पापे! किमिदं प्रतिकूलाचरणमिति प्रतिरुद्धा भवन्तं सञ्चिन्त्य निरतिशयभवत्सङ्कल्पसुखानुभवेन भवद्विरहजनितसन्तापदुःखानुभवेन च क्षीणसुकृतदुष्कृता अञ्जसानायासेन कैवल्यं मोक्षं विवेश । कृतिनी भाग्यवती ॥ ८ ॥

आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गस इस्वृहयोज्झतीर्गृहम् ।
विलोक्य यज्ञाय विसर्जयन्निमाञ्चकर्थ भर्तनपि तास्वगर्हणान् ॥ ९ ॥

 आदायेति । त्वदङ्गसङ्गस्पृहया त्वया सह रिरंसया गृहं सानुबन्धमुज्झतीस्त्यजती: विलोक्यानुगृह्य तास्वगर्हणान् बहुमानयुक्तांश्चकर्थ ॥ ९ ॥