सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ५२]
१९३
ब्रह्मकृतवत्सापहारवर्णनम् ।



 अन्येति । अन्यावतारनिकरेषु नृसिंहादिष्वप्यनिरीक्षितमदृष्टं भूमातिरेकमैश्वर्यातिशयम् । परीक्षितुमना इतोऽप्यैश्वर्यातिशयं द्रष्टुकामः प्रवितत्य प्रयुज्य । परोक्षभावमन्तर्धानम् ॥ १ ॥

वत्सानवीक्ष्य विवशे पशुपोत्करे ता-
 नानेतुकाम इव धातृमतानुवर्ती ।
त्वं सामिभुक्तकवलो गतवांस्तदानीं
 भुक्तांस्तिरोधित सरोजभवः कुमारान् ॥ २ ॥

 वत्सानिति । धातुर्मतं भूमातिरेकदर्शनं तदनुवर्ती तद्दर्शनार्थीत्यर्थः । सामिभुक्तकबलोऽर्धभुक्तपाणिकबल: अहमेव वत्सानानेण्यामीति भुञ्जानान् बालकानाख्याय तानानेतुकाम इव, नानेतुकामः, किन्तु धातृमतानुवर्तनार्थं गतवांस्त्वम् । तदानीं श्रीकृष्णे दूरस्थे सति सरोजभवो ब्रह्मा भुक्तान् भुञ्जानान् तिरोधित तिरस्कृतवान् ॥ २ ॥

 एवं वत्सकवत्सपेषु ब्रह्मणा तिरस्कृतेष्वेकाकी भगवान् सायमेतैर्विना मम ब्रजप्रवेशे सति गोगोपीनां स्वात्मजादर्शनजनितः खेदः स्याद् एतान् ब्रह्मणोऽपहूत्य गमने ब्रह्मणोऽपि खेद इति विचिन्त्य तदुभयाभावाय स्वमायया स्वेनैव सर्वं सम्पादितवानित्याह -

वत्सायितस्तदनु गोपगणायितस्त्वं
 शिक्यादिभाण्डमुरलीगवलादिरूपः ।
प्राग्वद् विहृत्य विपिनेषु चिराय सायं
 त्वं माययाथ बहुधा व्रजमाययाथ ॥ ३ ॥

 वत्सायित इति । तदनु ब्रह्मणा वत्सवत्सपसमूहे तिरस्कृते सति त्वं मायया बहुधा सर्वस्वरूपो भूतः वत्सायितो वत्सा इवाचरन् गोपगणायितः शिक्यादिरूपश्च चिराय चिरं विपिनेषु प्राग्वद् विहृत्याथ सायं सन्ध्यायां व्रजमाययाथागतवान् ॥ ३ ॥