पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
[स्कन्धः - १०
नारायणीये


सविस्मयैः कमलभवादिभिः सुरै-
 रनुद्रुतस्तदनु गतः कुमारकैः ।
दिने पुनस्तरुणदशामुपेयुषि
 स्वकैर्भवानतनुत भोजनोत्सवम् ॥ ८ ॥

 सविस्मयैरिति । अनुद्भुतो व्योममार्गेणानुगतः दिने तरुणदशामुपेयुषि मध्याह्ने प्राप्ते सति भोजनोत्सवं बनाशनकौतुकम् ॥ ८ ॥

विषाणिकामपि मुरलीं नितम्बके
 निवेशयन् कबलधरः कराम्बुजे ।
प्रहासयन् कलवचनैः कुमारकान्
 बुभोजिथ त्रिदशगणैर्मुदा नुतः ॥ ९ ॥

 विषाणिकामिति । विषाणिकां शृङ्ग, मुरली वेणुं, : नितम्बके कटिप्रदेशे पीतपटान्तरे ॥ ९ ॥

सुखाशनं त्विह तव गोपमण्डले
 मखाशनात् प्रिरियमिव देवमण्डले ।
इति स्तुतस्त्रिदशवरैर्जगत्मभो !
 मरुत्पुरीनिलय ! गदात् प्रपाहि माम् ॥ १० ॥

 सुखाशनमिति । गोपमण्डले सुखाशनं देवमण्डले मखाशनाद् यज्ञभागभोजनात् प्रियमिव त्रिदशवरैर्ब्रह्मादिभिरिति स्तुतः ॥ १० ॥

इत्यधासुरवधवर्णनम् एकपञ्चाशं दशकम् ।


अन्यावतारनिकरेष्वनिरीक्षितं ते
 भ्रमातिरेकमभिवीक्ष्य तदाघमोक्षे ।
ब्रह्मा परीक्षितुमनाः स परोक्षभावं
 निन्येऽथ वत्सकगणान् प्रवितस्य मायाम् ॥ १ ॥