पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
[स्कन्धः - १०
नारायणीये



 कदाचनेति । प्रगेतरामुषस्यासन्ने सतेमनैः सव्यञ्जनैर्जेमनैरोदनैः ॥ १ ॥

विनिर्यतस्तव चरणाम्बुजद्वया-
 दुदश्चितं त्रिभुवनपावनं रजः ।
महर्षयः पुलकधरैः कलेबरै-
 रुद्हिरे धृतभवढीक्षणोत्सवाः ॥ २ ॥

 विनिर्यत इति । विनिर्यतो विनिर्गच्छतः । उदञ्चितं पतितं त्रिभुवनपावनं जगतां पापशोधकम् । पुलकधरैरिति भक्तचनुभावः । उदूहिरे धृतवन्तः॥२॥

प्रचारयत्यविरलशाद्वले तले
 पशून् विभो! भवात समं कुमारकैः ।
अघासुरो न्यरुणदघाय वर्तनीं
 भयानकः सपदि शयानकाकृतिः ॥ ३ ॥

 प्रचारयतीति । अविरलशाद्वले तृणभूयिष्ठे तले प्रदेशे । अघाय भवतो भवन्नाथानां[१] च ग्रसनरूपमघमपराधं कर्तुं, परमार्थतस्तु भवभयप्रदमधं दुरितं त्यक्तुं वर्तनीं मार्ग न्यरुणद् रुरोध । शयानकाकृतिरजगररूपः ॥ ३ ॥

महाचलप्रतिमतनोर्गुहानिभ-
 प्रसारितप्रथितमुखस्य कानने ।
मुखोदरं विहरणकौतुकाद् गताः
 कुमारकाः किमपि विदूरगे त्वयि ॥ ४ ॥

 महाचलेति । कुमारका विवेकरहितास्त्वयि किमपि किञ्चिद् विदूरगे दूरस्थे सति कानने बिहरणकौतुकात् तस्य मुखोदरमास्यं गताः प्रविष्टाः । कथमेतद्, महाचलप्रतिमतनोः पर्वतगुहानिभं प्रसारितमास्तृतं प्रथितं विस्तृतं मुखमास्यं यस्य, अतः अजगरतनोर्महाचलभ्रान्त्या तन्मुखस्याचलगुहाभ्रान्त्या चेत्यर्थः ॥ ४ ॥


  1. 'नां गोपगोपीनां च' ख. ग. पाठः.