कदाचनेति । प्रगेतरामुषस्यासन्ने सतेमनैः सव्यञ्जनैर्जेमनैरोदनैः ॥ १ ॥
विनिर्यतस्तव चरणाम्बुजद्वया- |
विनिर्यत इति । विनिर्यतो विनिर्गच्छतः । उदञ्चितं पतितं त्रिभुवनपावनं जगतां पापशोधकम् । पुलकधरैरिति भक्तचनुभावः । उदूहिरे धृतवन्तः॥२॥
प्रचारयत्यविरलशाद्वले तले |
प्रचारयतीति । अविरलशाद्वले तृणभूयिष्ठे तले प्रदेशे । अघाय भवतो भवन्नाथानां[१] च ग्रसनरूपमघमपराधं कर्तुं, परमार्थतस्तु भवभयप्रदमधं दुरितं त्यक्तुं वर्तनीं मार्ग न्यरुणद् रुरोध । शयानकाकृतिरजगररूपः ॥ ३ ॥
महाचलप्रतिमतनोर्गुहानिभ- |
महाचलेति । कुमारका विवेकरहितास्त्वयि किमपि किञ्चिद् विदूरगे दूरस्थे सति कानने बिहरणकौतुकात् तस्य मुखोदरमास्यं गताः प्रविष्टाः । कथमेतद्, महाचलप्रतिमतनोः पर्वतगुहानिभं प्रसारितमास्तृतं प्रथितं विस्तृतं मुखमास्यं यस्य, अतः अजगरतनोर्महाचलभ्रान्त्या तन्मुखस्याचलगुहाभ्रान्त्या चेत्यर्थः ॥ ४ ॥
- ↑ 'नां गोपगोपीनां च' ख. ग. पाठः.