पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ५१]
१८९
अघासुरवधवर्णनम् ।


 पिबतीति । गोपानां व्राते समूहे । अभिद्रुतोऽभिधावन् भवन्तं निगिलन् ग्रसन् अग्निप्रख्यमग्निसदृशमत एव द्रुतमुद्वमन् पुनर्वमनानन्तरं त्रोट्याः चञ्चोः कोट्याग्रेण दलयितुं विदारयितुमगात् । खलजनभिदाचुञ्चुर्दुष्टनिग्रहेण प्रसिद्धो भवान् अधरोत्तरे चञ्चू प्रगृह्य तं ददार निगृहीतवान् ॥ ८ ॥

सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना-
 मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा ।
शमननिलयं याते तस्मिन् बके सुमनोगणे
 किरति सुमनोबृन्दं वृन्दावनाद गृहमैयथाः ॥ ९ ॥

 सपदीति । अग्रे पूर्वं गत्वाघमघासुरं प्रतीक्षितुं प्रतिपालयितुम् । तस्मिन्नघपूतनाज्येष्ठे बकासुरे शमननिलयं यमसदनं याते सति सुमनसां देवानां गणे सुमनसां पुष्पाणां बृन्दं समूहं किरति वर्षति सत्यैयथा अगच्छः ॥ ९ ॥

ललितमुरलीनादं दूरान्निशम्य वधूजनै-
 स्त्वरितमुपगम्यारादारूढमोद मुदीक्षितः ।
जनितजननीनन्दानन्दः समीरणमन्दिर-
 प्रथितवसते! शौरे! दूरीकुरुष्व ममामयान् ॥ १० ॥

 ललितेति । ललितमतिसुन्दरं मुरलीनादं वेणुनादं निशम्य दूरादुदीक्षित उन्नमितवदनं वीक्षितः पुनस्त्वरितमुपगम्य प्रस्थाय तत्समीपं गत्वारात् समीपेऽङ्गप्रत्यङ्गदर्शनादारूढमोदमुदीक्षितः जनित उत्पादितो जननीनन्दयोरानन्दो येन ॥ १० ॥

इति वत्सासुरवधवर्णनं बकासुरवभवर्णनं च

पञ्चाशं दशकम् ।


कदाचन व्रजशिशुभिः समं भवान्
 वनाशने विहितमतिः प्रगेतराम् ।
समावृतो बहुतरवत्समण्डलैः
 सतेमनैर्निरगमदीश! जेमनैः ॥ १ ॥