पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८८
[स्कन्धः - १०
नारायणीये



जबेन क्षुण्णैश्चूर्णीकृतैः क्षोणीरुहवृक्षैः क्षतं नष्टं काननं येन । परिमिलन्ति समूहीभूतानि वृन्दानि गणा येषु ते बृन्दारका देवाः कुसुमोत्करैः सुरतरुकुसुमनिकरैः ॥ ५ ॥

सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली
 निपतति तवेत्युक्तो बालैः सहेलमुदैरयः ।
झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात्
 कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥ ६ ॥

 सुरभिलेति । सुरभिलतमातिशयेन सुरभिला सौरभ्ययुक्ता कुसुमावली कुतस्तव मूर्धनि निपतति ऊर्ध्वमुपरिभागे वृक्षाभावात् कुत एतदिति बालैरुक्तः पृष्टस्त्वं सहेलं सलीलमुदैरय उक्तवान्, दनुजक्षेपेण वत्सासुरशवशरीरप्रक्षेपेण तद्वेगोत्थः कुसुमनिकरस्तरुमण्डलाद् वृक्षनिकरादूर्ध्वं गतः सोऽयं शनैः समेति मूर्ध्नि पतति नूनं तर्कयामि ॥ ६ ॥

क्कचन दिवसे भूयो भूयस्तरे परुषातपे
 तपनतनयापाथः पातुं गता भवदादयः ।
चलितगरुतं प्रेक्षामासुर्बकं खलु विस्मृतं
 क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥ ७ ॥

 क्कचनेति । भूयः पुनः क्वचन दिवसे भूयस्तरे भूयिष्ठे परुषातपे ग्रीष्मकाले तपनतनयायां यमुनायां पाथो जलं पातुं भवदादयो गोपबालका बकं बकासुरं प्रेक्षामासुः दृष्टवन्तः । चलितगरुतं चलितपक्षम् । इन्द्रकर्तृके क्षितिधरगरुच्छेदे विस्मृतमच्छिन्नपक्षमपरं द्वितीयम् ॥ ७ ॥

पिबति सलिलं गोपव्राते भवन्तमभिद्रुतः
 स किल निगिलन्नग्निप्रख्यं पुनर्द्रुतमुद्रमन् ।
दलयितुमगात् त्रोट्याः कोट्या तदा तु[१] भवान् [२]विभो !
 खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥ ८ ॥


  1. 'शु' ग. पाठः.
  2. क्षणात ख. घ. पाठ:.