पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ५०]
१८७
वत्सासुरवधवर्णनम् ।


लालितं संवाहितम् । तर्वादिकं किमिव सम्पत्सम्पूरितं न बभौ शुशुभे तरवः पुष्पादिभिः सम्पद्भिः, वल्लर्यश्च, सलिलं पद्मादिभिः, धरणी सस्यादिभिः, गोत्रः पर्वतो रत्नादिभिः, क्षेत्रमाकरो हेमादिभिश्च सम्पूर्ण शुशुभ इत्यर्थः ॥ २ ॥

विलसदुलपे कान्तारान्ते समीरणशीतले
 विपुलयमुनातीरे गोवर्धनाचलमूर्धसु ।
ललितमुरलीनादः सञ्चारयन् खलु वात्सकं
 क्कचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥ ३ ॥

 विलसदिति । विलसदुलपे शोभमानतृणविशेषयुक्ते कान्तारान्ते वनप्रदेशे, यमुनातरङ्गसङ्गिना समीरणेन शीतले विपुले पुलिनमयतया विस्तृते यमुनातीरे च वात्सकं वत्ससमूहम् | उदैक्षथा दृष्टवान् ॥ ३ ॥

रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन्
 किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् ।
तमथ चरणे बिभ्रद् विभ्रामयन मुहुरुच्चकैः
 कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥ ४ ॥

 रभसेति । रभसविलसत्पुच्छं वेगादितस्ततः सञ्चारितपुच्छं यथा भवति तथा विच्छायतो गच्छतोऽस्य बत्सासुरस्य किमपि वलितस्कन्धमीषत्तिर्यक्कृग्रीवं, रन्ध्रप्रतीक्षमवसरप्रतिपालनरूपं च यदुदीक्षितमवलोकनं तद् विलोकयन् अथ मां हन्तुकामोऽयमिति निश्चित्य तं चरणे बिश्रद् गृहीत्वोच्चकैर्वेगान्मुहुर्विभ्रामयन् वित्रमणेनैव क्षतजीवितं कुहचन कस्मिंक्ष्चिच्चिक्षेपिथ प्रक्षिप्तवान् ॥ ४ ॥

निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं
 निपतनजवक्षुण्णक्षोणीरुहक्षतकानने ।
दिवि परिमिलद्वृन्दा बृन्दारकाः कुसुमोत्करैः
 शिरसि भवतो हर्षाद् वर्षन्ति नाम तदा हरे ! ॥ ५ ॥

 निपततीति । जात्या जन्मतः प्रभृत्यासुरभावेन दुरात्मनि दुष्टे निपतन-