पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ४९]
१८५
बृन्दावनगमनवर्णनम् ।


समूहस्य खुरप्रणादः, तयोरन्तरतो मध्ये श्रूयमाणानि भवद्विनोदालपितेषु कलभाषणेष्वमृतमयानि अक्षराणि प्रपीय श्रोत्राञ्जलिभिरापीय मार्गदैर्घ्य नाज्ञायत न विदितम् ॥ ४ ॥

निरीक्ष्य बृन्दावनमीश! नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् ।
अमोदथाः शाद्वलसान्द्रलक्ष्म्या हरिन्मणीकुट्टिमपुष्टशोभम् ॥ ५ ॥

 निरीक्ष्येति । नन्दन्ति समृद्धानि प्रसूनानि येषु तथाविधाः कुन्दप्रमुखा द्रुमौघा यस्मिन् । शाद्वलसान्द्रलक्ष्म्या हरिततृणनीरन्ध्रितस्थलशोभया हरिन्मणीकुट्टिमवदिन्द्रनीलमणिकुट्टिमवत् पुष्टशोभं संपूर्णशोभायुक्तम् । अमोदथाः सन्तुष्टोऽभूः ॥ ५ ॥

नवाकनिर्व्यूढनिवासभेदेष्वशेषगोपेषु सुखासितेषु ।
वनश्रियं गोपकिशोरपालीविमिश्रितः ‘पर्यगलोकथास्त्वम् ॥ ६ ॥

 नवाकेति । नवाकनिर्व्यूढेषु [१]नूतनतया रचितेषु निवासभेदेषु विशिष्टेषु भवनेषु । पर्यगलोकथाः परितो दृष्टवानसि ॥ ६ ॥

अरालमार्गागतनिर्मलापां मरालकूजाकृतनर्मलापाम् ।
निरन्तरस्मेरसरोजवक्रां कलिन्दकन्यां समलोकयस्त्वम् ॥ ७ ॥

 अरालेति । मरालकूजाभिः कलहंसकूजितैः कृतनर्मलापामुच्चारितसरसबचनाम् । अरालेन कुटिलेन मार्गेणागता निर्मला आपो यस्याम् । निरन्तराणि नीरन्ध्रितानि स्मेराणि सरोजान्येव वक्रं यस्याः | कलिन्दकन्याम्[२] अत एवोपभोगक्षमाम् ॥ ७ ॥

मयूरकेकाशतलोभनीयं मयूखमालाशबलं मणीनाम् ।
विरिञ्चलोकस्पृशमुच्चयृङ्गैर्गिरिं च गोवर्धनमैक्षथास्त्वम् ॥ ८ ॥

 मयूरेति । मयूराणां केकाशतैः कलकलनिनादैर्लोभनीयं मनोहरं मणीनां


+ अन्वगादिवद् अञ्चूत्तरपदं पर्यंगिति। परित इति तदर्थः ।


  1. 'अर्धचन्द्राकारतया र' ग. पाठः.
  2. 'न्यां कालिन्दीमत ख. पाठः.