समूहस्य खुरप्रणादः,
तयोरन्तरतो मध्ये श्रूयमाणानि भवद्विनोदालपितेषु कलभाषणेष्वमृतमयानि अक्षराणि प्रपीय श्रोत्राञ्जलिभिरापीय मार्गदैर्घ्य नाज्ञायत न
विदितम् ॥ ४ ॥
निरीक्ष्य बृन्दावनमीश! नन्दत्प्रसूनकुन्दप्रमुखद्रुमौघम् । |
निरीक्ष्येति । नन्दन्ति समृद्धानि प्रसूनानि येषु तथाविधाः कुन्दप्रमुखा द्रुमौघा यस्मिन् । शाद्वलसान्द्रलक्ष्म्या हरिततृणनीरन्ध्रितस्थलशोभया हरिन्मणीकुट्टिमवदिन्द्रनीलमणिकुट्टिमवत् पुष्टशोभं संपूर्णशोभायुक्तम् । अमोदथाः सन्तुष्टोऽभूः ॥ ५ ॥
नवाकनिर्व्यूढनिवासभेदेष्वशेषगोपेषु सुखासितेषु । |
नवाकेति । नवाकनिर्व्यूढेषु [१]नूतनतया रचितेषु निवासभेदेषु विशिष्टेषु भवनेषु । पर्यगलोकथाः परितो दृष्टवानसि ॥ ६ ॥
अरालमार्गागतनिर्मलापां मरालकूजाकृतनर्मलापाम् । |
अरालेति । मरालकूजाभिः कलहंसकूजितैः कृतनर्मलापामुच्चारितसरसबचनाम् । अरालेन कुटिलेन मार्गेणागता निर्मला आपो यस्याम् । निरन्तराणि नीरन्ध्रितानि स्मेराणि सरोजान्येव वक्रं यस्याः | कलिन्दकन्याम्[२] अत एवोपभोगक्षमाम् ॥ ७ ॥
मयूरकेकाशतलोभनीयं मयूखमालाशबलं मणीनाम् । |
मयूरेति । मयूराणां केकाशतैः कलकलनिनादैर्लोभनीयं मनोहरं मणीनां
+ अन्वगादिवद् अञ्चूत्तरपदं पर्यंगिति। परित इति तदर्थः ।