पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
[स्कन्धः - १०
नारायणीये


महीरुहोर्मध्यगतो वतार्भको हरेः प्रभावादपरिक्षतोऽधुना ।
इति ब्रवाणैर्गमितो गृहं भवान् मरुत्पुराधीश्वर! पाहि मां गढ़ात् ॥ १० ॥

 महीति । महीरुहोर्वृक्षयोः । प्रभावः शक्तिः । अपरिक्षतोऽविकलाङ्गः । ब्रुवाणर्नन्दादिभिरिति शेषः ॥ १० ॥

इति यमलार्जुनभञ्जनवर्णनम् अष्टचत्वारिंशं दशकम् ।




भवत्प्रभावाविदुरा हि गोपास्तरुप्रपातादिकमत्र गोष्ठे ।
अहेतुमुत्पातगणं विशङ्कय प्रयातुमन्यत्र मनो वितेनुः ॥ १ ॥

 भवदिति । भवत्प्रभावाविदुरा अविदितभवत्स्वरूपैश्वर्याः केवलं मर्त्यबुद्धयः तरुप्रपातादिकमहेतुत्वादुत्पातगणं दुर्निमित्तौघं विशङ्कच ॥ १ ॥

तत्रोपनन्दाभिधगोपवर्यो जगौ भवत्प्रेरणयैव नूनम् ।
इतः प्रतीच्यां विपिनं मनोज्ञं वृन्दावनं नाम विराजतीति ॥ २ ॥

 तत्रेति । तत्र तेषु गोपेषूपनन्दाभिधो गोपवर्य इति जगावुवाच । तत्तु भवत्प्रेरणयैव नूनं निश्चिनोमि ॥ २ ॥

बृहद्वनं तत् खलु नन्दमुख्या विधाय गौष्ठीनमथ क्षणेन ।
त्वदन्वितत्वज्जननीनिविष्टगरिष्ठयानानुगता विचेलुः ॥ ३ ॥

 बृहदिति । नन्दमुख्या नन्दादयो गोपाः । यत्रस्थो भगवानेतावन्तं कालं क्रीडितवान्, तत् खलु बृहद्वनं नाम देशं गौष्ठीनं भूतपूर्वगोस्थानं विधाय कृत्वा बृहद्वनाख्यं पूर्वगोष्ठं विहायेत्यर्थः । त्वदन्वितेति । रामकृष्णान्वितयशोदारोहिणीनिविष्टमंत एव गरिष्ठं महनीयं यानं शकटमनुगता गोपा विचेलुर्जग्मुः ॥ ३ ॥

अनोमनोज्ञध्वनिधेनुपालीखुरप्रणादान्तरतो वधूभिः ।
भवद्विनोदालपिताक्षराणि प्रपीय नाज्ञायत मार्गदैर्घ्यम् ॥ ४ ॥

अन इति । अनसः शकटस्य मनोज्ञो यो ध्वनिः, यश्च धेनुपाल्या: पशु-