पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ४८]
१८३
यमलार्जुनभञ्जनवर्णनम् ।


अतन्द्रमिन्द्रद्रुयुगं तथाविधं समेयुषा मन्थरगामिना त्वया ।
तिरायितोलूखलरोधनिर्धुतौ चिराय जीर्णौ परिपातितौ तरू ॥ ६ ॥

 अतन्द्रमिति । तथाविधं यमलमिन्द्रद्रुयुगमर्जुनतरुयुग्ममतन्द्रं सोत्साहं यथा भवति तथा उलृखलाकर्षणान्मन्थरगामिना मन्दगामिना समेयुषा प्राप्तवता तिरायितस्य तिर्यग्गतस्योलूखलस्य रोधेन निर्धुतौ निर्भिन्नमूलौ चिराय जीर्णो पुराणौ परिपातितौ सर्वतः प्रसृतशाखोपशाखतया पातितौ ॥ ६ ॥

अभाजि शाखिद्वितयं यदा त्वया तदेव तद्गर्भतलान्निरेयुषा ।
महात्विषा यक्षयुगेन तत्क्षणादभाजि गोविन्द ! भवानपि स्तवैः ॥ ७ ॥

 अभाजीति । त्वया शाखिद्वितयं यदाभाजि भग्नं, तदा तद्गर्भतलाच्छाखिद्वितयान्तर्भागान्निरेयुषा निर्गतेन महती त्दिड् यस्य तेन यक्षयुगेन स्तवैः स्तोत्रैर्भवानप्यभाजि सेवितः । अत्र भग्नं शाखिद्वितयं पुरुषरूपं गृहीत्वा प्रत्युपचकारेति प्रतीयते ॥ ७ ॥

इहान्यभक्तोऽपि समेष्यति क्रमाद् भवन्तमेतौ खलु रुद्रसेवकौ ।
मुनिप्रसादाद् भवदङ्घ्रिमागतौ गतौ वृणानौ खलु भक्तिमुत्तमाम् ॥८ ॥

 इहेति । इह जगत्यन्येषां त्रिगुणद्विगुणमूर्तीनां ब्रह्मगिरिशादीनां भक्तः सेवकोऽपि क्रमादधिकारक्रमेण भवन्तं शुद्धसत्त्वमूर्ति समेप्यति भजनाधिकारी भविष्यति खलु निश्चितम् । कुत इत्यत आह- एताविति । उत्तमां प्रेमलक्षणां भक्तिं वृणानौ प्रार्थयन्तौ ॥ ८ ॥

ततस्तरूद्दारणदारुणारवप्रकम्पिसम्पातिनि गोपमण्डले ।
विलज्जितत्वज्जननीमुखेक्षिणा व्यमोक्षि नन्देन भवान् विमोक्षदः ॥९॥

 तत इति । तर्वोरुद्दारणं भञ्जनं तज्जनितेन दारुणेनारवेण प्रकम्पिसम्पातिनि क्केदं किमिदमिति ससम्भ्रममागमनशीले सति बन्धनानुशयेन विलज्जिताया स्त्वज्जनन्याः ‘किं कृतं यशोदे ! त्वया, अहो अविमृश्यकारिता भवत्या' इत्यभिप्रायगर्भे मुखेक्षिणा नन्देन भवान् व्यमोक्षि पाशबन्धनान्मोचितः ॥ ९ ॥