पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
[स्कन्धः - १०
नारायणीये



अर्धपीतकुचकुड्मले त्वयि स्निग्धहासमधुराननाम्बुजे ।
दुग्धमीश! दहने परिस्रुतं धर्तुमाशु जननी जगाम ते ॥ २ ॥

 अर्धेति । त्वय्यर्धपीतकुचकुड्मलेऽतृप्ते तदन्तरा मात्राङ्गुलीभ्यां कपोलतलचालनात् स्निग्धहासमधुराननाम्बुजे च सति ॥ २ ॥

सामिपीतरसभङ्गसङ्गतक्रोधभारपरिभूतचेतसा ।
मन्थदण्डमुपगृह्य पाटितं हन्त देव! दधिभाजनं त्वया ॥ ३ ॥

 सामीति । सामिपीतस्यार्धपीतस्य रसस्य स्तन्यस्य भङ्गेन विच्छेदेन सङ्गतः प्राप्तो यः क्रोधभारस्तेन परिभूतमावेशितं चेतो यस्य स तथा ॥ ३ ॥

उच्चलद् ध्वनितमुच्चकैस्तदा संनिशम्य जननी समाद्रुता ।
त्वद्यशोविसरवद् ददर्श सा सद्य एव दधि विस्तृतं क्षितौ ॥ ४ ॥

 उच्चलदिति । उच्चकैः पूर्णकुम्भपाटनेन सातिशयमुच्चलदुद्गतं ध्वनितं शब्दं निशम्य समाद्रुता वेगेनागता । यशसो विसरो व्याप्तिः । सद्यः समाद्रुता दध्येव ददर्शेत्यनेन तव नवनीतमोषणार्थमन्यतो गमनं व्यज्यते ॥ ४ ॥

वेदमार्गपरिमार्गितं रुषा त्वामवीक्ष्य परिमार्गयन्त्यसौ ।
सन्ददर्श सुकृतिन्युलूखले दीयमाननवनीतमोतवे ॥ ५॥

 वेदेति । असौ यशोदा मुनिभिर्वेदमार्गैः काण्डत्रयात्मकैः परिमार्गितं न दृष्टं तं त्वां रुषा. न भक्त्या. परिमार्गयन्त्यन्वेषणं कुर्वन्ती सम्यक् चाक्षुषतया ददर्श । अतः सुकृतिनी नवनीतभाजनाधःस्थितोलूखलेऽग्रपादेन स्थित्वौतवे मार्जाराय दीयमानं नवनीतं येन तम् ॥ ५ ॥

त्वां प्रगृह्य बत भीतिभावनाभासुराननसरोजमाशु सा ।
रोषरूषितमुखी सखीपुरो बन्धनाय रशनामुपाददे ॥ ६ ॥

 त्वामिति । नाट्यवद् भीतिभावनया भासुरमाननसरोजं यस्य तं त्वाम् । रोषेण रूषितं भ्रूभङ्गदशनच्छददंशननेत्ररक्तिमादिभिश्चिक्षैरङ्कितं मुखं यस्याः । सखीनां पुरः पुरोभागे रशनां पाशम् ॥ ६ ॥