पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ४७]
१७९
कृष्णस्योलूखलबन्धनवर्णनम् ।


 कलशेति । कलशाम्बुधिशायिनं क्षीराब्धौ शेषपर्यङ्कशायिनं, पुनस्ततः परबैकुण्ठपदाधिवासिनं, स्वस्थ पुरः पुरतो निजार्भकात्मकं यशोदातनयरूपं त्वां सा कतिधा न ददर्श ॥ ८ ॥

 ननु यशोदा स्वसुतस्यास्ये [१] स्वसुतं ददर्शेन्युक्तं, तस्याप्यास्ये किं भुवनानि विद्यन्ते न वेति शङ्कायामाह्-

विकसद्भुवने मुखोदरे ननु भूयोऽपि तथाविधाननः ।
अनया स्फुटमीक्षितो भवाननवस्थां जगतां वतातनोत् ॥ ९ ॥

 विकसदिति । विकसन्ति भुवनानि यस्मिंस्तद् विकसद्भुवनं प्रकाशितब्रह्माण्डं तस्मिन् मुखोदर आस्ये तथाविधं विकसद्भुवनमाननं यस्य स भवाननया स्फुटं स्पष्टमीक्षितः जगतां प्रपञ्चानामनवस्थामनवसानताम् । अयमर्थः यशोदा स्वसुतस्यास्ये जगत् स्वसुतं च ददर्श । तस्यापि स्वसुतस्यास्ये जगत् स्वसुतं च ददर्श, पुनस्तस्याप्येवं, पुनश्च तस्यापि एवं दर्पणस्थप्रतिबिम्बदर्पणानवस्थाबद् भवान् जगतामनवस्थामातनोदिति ॥ ९ ॥

धृततत्त्वधियं तदा क्षणं जननीं तां प्रणयेन मोहयन् ।
स्तनमम्ब! दिशेत्युपासजन् भगवन्नद्भुतवाल! पाहि माम् ॥ १० ॥

 धृतेति । तस्यान्तर्भागेऽनेकब्रह्माण्डस्य तद्वहिष्ठवैकुण्ठलोकस्यापि दर्शनात् तद्वहिष्ठायाः प्रकृतेः परं सञ्चिदानन्दाद्वयं ब्रह्मेवेदं योगैश्वर्येण मत्पुत्रभावेनात्मानं प्रदर्श्य मोहयतीति क्षणं धृता तत्त्वधीः सम्यग्ज्ञानं यया तामुपास[२]जन्नङ्कमारुरुक्षन् अनेकब्रह्माण्डदर्पणस्थानीयत्वादद्भुतबाल! ॥ १० ॥

इति विश्वरूपप्रदर्शनवर्णनं षट्चत्वारिंशं दशकम् ।


एकदा दधिविमाथकारिणीं मातरं समुपसेदिवान् भवान् ।
स्तन्यलोलुपतया निवारयन्नङ्कमेत्य पपिवान् पयोधरौ ॥ १० ॥

 एकदेति । दध्नो विमाथो विमथनं तत् करोतीति तथा । समुपसेदिवान् समीपं प्राप्तवान् । अङ्कमेत्यारुह्य निवारयन् दधिविमथनमिति शेषः ॥ १ ॥


  1. "स्ये स्वात्मानं स्वसुतं च द ग. पाठ:.
  2. 'व्र' क. ख. पाठः.