पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
[स्कन्धः - १०
नारायणीये



 पुनरिति । पुनरपि किञ्चिद्वयोतिक्रमणे सति त्वयि बालकैः समं सह ॥ २ ॥

अयि ते प्रलयावधौ विभो ! क्षितितोयादिसमस्तभक्षिणः ।
मृदुपाशनतो रुजा भवेदिति भीता जननी चुकोप सा ॥ ३ ॥

 अयीति । प्रलय एवावधिः प्रलयावधिः । प्रत्यहमिव प्रतिप्रलयं क्षित्यादिसमस्तं प्रपञ्चं भक्षयितुं शीलमस्येति तथा तस्य ते मृदुपाशनतः क्षितिलवमात्रभक्षणेन रुजा रोगो भवेत् ॥ ३ ॥

अयि दुर्विनयात्मक ! त्वया किमु मृत्सा वत वत्स ! भक्षिता ।
इति मातृगिरं चिरं विभो ! वितथां त्वं प्रतिजज्ञिषे हसन् ॥ ४ ॥

 अयीति । वितथामयर्थां प्रतिजज्ञिषे प्रतिज्ञातवानसि ॥ ४ ॥

[१]अयि ते सकलैर्विनिश्चिते विमतिश्चेद् वदनं विदार्यताम् । इति मातृविभत्सिंतो मुखं विकसत्पद्मनिभं व्यदारयः ॥ ५ ॥

 अयीति । सकलैस्त्वत्सखिभिस्तवाग्रजेन च विनिश्चिते मृद्धोजने तवैकस्य विमतिर्विवादोऽस्ति चेत् सन्देहहानाय वदनमास्यं विदार्यतामिति मात्रा विभर्सितोऽधिक्षिप्तः विकसत्पद्मनिभं यथा भवति तथा व्यदारयः ॥ ५ ॥

अयि मृल्लवदर्शनोत्सुकां जननीं तां बहु तर्पयन्निव ।
पृथिवीं निखिलां न केवलं भुवनान्यप्यखिलान्यदीदृशः ॥ ६ ॥

 अयीति । बहु अतिशयेन तर्पयन् प्रीणयन् अदीदृशः प्रदर्शयामासिथ ॥

कुहचिद् वनमम्बुधिः क्कचित् क्कचिदभ्रं कुहचिद् रसातलम् ।
मनुजा दनुजाः क्कचित् सुरा ददृशे किं न तदा त्वदानने ॥ ७ ॥

 कुहचिदिति ।[२]वान्तर्भागे कुहचित् कुत्रचित् ॥ ७ ॥

कलशाम्बुधिशायिनं पुनः परवैकुण्ठपदाधिवासिनम् ।
स्वपुरश्च निजार्भकात्मकं कतिधा त्वां न ददर्श सा मुखे ॥ ८ ॥


  1. ’पि' क.ग. पाठः.
  2. "द" ख. पाठः.