पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ४७]
१८१
कृष्णस्योलूखलवन्धनवर्णनम् ।



बन्धुमिच्छति यमेव सज्जनस्तं भवन्तमायि बन्धुमिच्छती ।
सा नियुज्य रशनागुणान् बहून् व्घङ्गुलोनमखिलं किलैक्षत ॥ ७ ॥

 बन्धुमिति । अयि भगवन् ! यं सज्जनो मोक्षार्थी बन्धुं शरणमिच्छति, तं भवन्तं सा यशोदा पाशेन बन्धुमिच्छती रशनागुणान् बहून् नियुज्य त्वदङ्गे निक्षिप्य व्घङ्गुलोनतया पुनः पुनर्निक्षिप्याखिलमपि रशनागुणं यगुलोनमैक्षत दृष्टवती किल ॥ ७ ॥

विस्मितोत्स्मितसखीजनेक्षितां स्विन्नसन्नवपुषं निरीक्ष्य ताम् ।
नित्यमुक्तवपुरप्यहो हरे ! वन्धमेव कृपयान्वमन्यथाः ॥ ८ ॥

 विस्मितेति । व्द्यगुलोनतादर्शनेन विस्मितैरत एवोत्स्मितैः सखीजनैरीक्षितां स्विन्नं स्वेदार्द्रं सन्नं क्लान्तं च वपुर्यस्यास्ताम् । नित्यमुक्तं परब्रह्माख्यं वपुर्यस्य स त्वं रशनागुणैर्बन्धं बन्धनमेवान्वमन्यथा अनुज्ञातवान् ॥ ८ ॥

स्थीयतां चिरमुलूखले खलेत्यागता भवनमेव सा यदा ।
प्रागुलूखलविलान्तरे तदा सर्पिरर्पितमन्नवास्थिथाः ॥ ९ ॥

 स्थीयतामिति । सा त्वां बद्ध्वा हे खल! त्वया चिरमुलूखले स्थीयतामित्युक्त्वा भवनमेवागता यदा, तदा प्रागुलूखलबिलान्तरेऽर्पितं सर्पिर्नवनीतमदन्नवास्थिथाः स्थितवानसि ॥ ९ ॥

यद्यपाशसुगमो भवान् विभो! संयतः किमु सपाशयानया ।
एवमादि दिविजैरभिष्टुतो वातनाथ! परिपाहि मां गदात् ॥ १० ॥

 यदीति । अपाशानामपगतविषयश्रद्धानां सुगमः सुखेन प्राप्तुं शक्यः । एवं सति सपाशया पाशसहितयानया यशोदया किमु कथं संयतो बद्धः ॥ १० ॥

इति कृष्णस्योलूखलबन्धनवर्णनं सप्तचत्वारिंशं दशकम् ।