पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[स्कन्धः-१.
नारायणीये



अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्त्वं
 तत्तावद् भाति साक्षाद् गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ १ ॥

 सान्द्रेति । ब्रह्म गुरुपवनपुरे साक्षाद् भातीति सम्बन्धः । ब्रह्म सर्वाश्रयं सर्वानुस्यूतं शुद्धचैतन्यम् । गुरुपवनपुरे गुरुपवनपुरमिति प्रसिद्धे क्षेत्रे । साक्षाद् भाति भक्ता[१]नुग्रहायातिस्वच्छतरशुद्धसत्त्वमयमूर्ति सद् आच्छादितनिजसच्चिदानन्दरूपं प्रतिमामिषेण सकलजनचाक्षुषज्ञानगोचरीभवतीत्यर्थः । ननु किं सकलं निष्कलं वा ब्रह्म साक्षाद् भातीत्युच्यत इत्याशङ्कायामाह -- तत्तावदिति । तावच्छब्दोऽवधारणे । यद् उक्तविशेषणविशिष्टं निष्कल ब्रह्म , तदेवेत्यर्थः । [२]शुद्धसत्त्वस्य च निप्कलब्रह्मानन्यत्वं 'निष्कम्प' (क्ष्लो. ४) इत्यत्रोपपादयिष्यते । अथवा तावच्छब्दः क्रमार्थः । तद् ब्रह्म तावत् क्रमानुरोधेन साक्षाच्चाक्षुषतया मानसतया स्वप्रकाशसंविद्रूपेण च भातीत्यर्थः । अयं चाशयः - श्रीगुरुपवनपुराधीशं चक्षुषा साक्षात्कृत्य श्रवणकीर्तनादिलक्षणया भक्त्या भजतां झटिति सञ्जातया प्रेमलक्षणया भक्त्या निखिलकल्मषनाशे सति निर्मलचेतस्तयाविलम्बितमेव साधनचतुष्टयसम्पत्तेरधिकारित्वे जाते सकललोकगुरोः श्रीहरेरेव प्रभावेणाहमखण्डं ब्रह्मास्मीति चित्तवृत्तिरुदेति । सा च ब्रह्मविषया सती ब्रह्मगताज्ञानबाधनद्वारा तत्कार्यभूतं शरीरादिप्रपञ्चं, तदन्तर्भूतामखण्डाकारां चित्तवृत्तिमपि बाधते । तदा दर्पणाद्यभावे बिम्बप्रतिबिम्बैक्यवत् प्रत्यगभिन्नं सच्चिदानन्दं ब्रह्म स्वप्रकाशसंविद्रूपेणावतिष्ठत इति । एवमनायासेनैव[३] परमपुरुषार्थलब्धिः सुकृतपरिपाकैकमूलेत्याह - हन्त भाग्यं जनानामिति । जनानां भाग्यं पुरुषार्थलब्धिसामग्रचानुमीयत इत्यर्थः । जनानामित्यविशेषोक्त्या सर्वेषामपि भगवद्भजनाधिकार इति द्योत्यते । हन्तेति हर्षे । जनानां भाग्ये सति हर्षाविर्भावोऽस्य शुकनारदादिभगवदधिकारिपुरुषाणामिव परमकारुणिकतया परार्थघटनकुतुकित्वं द्योतयति । ननु किमर्थमिदमुच्यते 'ब्रह्म भाति, हन्त भाग्यं जनानामि'ति । न तावत् स्वप्रतिपत्त्यर्थे, वाक्यप्रयोगवैयर्थ्यात् । न परं बोधयितुं, ‘भजध्वजि’त्यादितदुपपादकवाक्यशेषाश्रवणादिति चेद्, मैवम् । यथा केनचिल्लाक्षणिकेन ‘निधिगर्भेयं भूमिः, हन्त भाग्यवन्तो यूयम्' इत्युक्ते श्रोतार-


  1. 'क्त्तजनानु' क. पाठः.
  2. 'तत्त्वस्य नि' क. पाठः.
  3. 'व पु' क. पाठः.