स्तदर्थिभिर्निधिग्रहणं कर्तव्यमित्यनेनोक्तमित्यध्याहृत्य वा[१]क्यशेषं कल्पयन्ति, तद्वदत्रापि वाक्यशेषोऽध्याहर्तव्यः । एवञ्च कथञ्चिद् बहुजन्मार्जितसुकृतपरिपाकवशेन लब्धमनुष्यजन्मानो यूयं भक्तियोगपुरःसरं भक्तानुग्रहायाङ्गीकृतसत्त्वविग्रहं श्रीगुरुवायुपुरनाथं परं ब्रह्म संसेव्य परमपुरुषार्थमनुभवतेत्युपदेशरहस्यमेवैतदित्यवगन्तव्यम् । ननु भाग्यमिति कर्मफलमुच्यते । [२]तज्जन्यत्वे परमपुरुषार्थस्यानित्यत्वप्रसङ्ग इति चेद्, न, अधिकारित्वसम्पादनेनोपक्षीणत्वात् कर्मफलानाम् । तदुक्तम् 'एषां नित्यादीनां बुद्धिशुद्धिः परं प्रयोजनम्' इति । ब्रह्मणः स्वरूपलक्षणमाहसान्द्रानन्दावबोधात्मकं तत्त्वमिति । आनन्द: सुखम्, अवबोधो ज्ञानं, सान्द्रौ घनीभूतौ आनन्दावबोधावात्मा स्वरूपं यस्य तत् तथोक्तम् । आनन्दस्य सान्द्रत्वं नाम स्रक्चन्दनाघुपाध्यनवच्छिन्नत्वम् । अवबोधस्य[३] च घटादिविषयानवच्छिन्नत्वम् । यदुक्तमभियुक्तैः –
'यस्मिन्यस्मिन्नस्ति लोके बोधस्तत्तदुपेक्षणे । |
इति । तत्त्वं परमार्थं सत्, सर्वस्याप्यात्मत्वेन प्रसिद्धत्वात् । कस्यापि हि न नाहमस्मीति प्रतीतिरुदेति । एवञ्चाहंप्रत्यय एवं प्रत्यगात्मत्वेन ब्रह्मणः सिद्धत्वान्न तत्सत्त्वे विप्रतिपत्तिरिति भावः । आभ्यां विशेषणाभ्यां सच्चिदानन्दं ब्रह्मेति स्वरूपलक्षणमुक्तं, यथा प्रकृष्टप्रकाशश्चन्द्रमा इति । नन्वेवंलक्षणमपि ब्रह्म नानुभवपदवीमवतरति । अत ईदृशं तदिति सदृष्टान्तं प्रदर्श्यतामित्याशङ्कयाह –– अनुपमितमिति । सजातीयस्य विजातीयस्य वान्यस्याभावाद्[४] ब्रह्मणः केनाप्युपमानमशक्यमिति भावः । अनेन च ब्रह्मणोऽद्वितीयत्वमप्यर्थादुक्तम् | ननु जीवेश्वरयोर्जीवानां तदुपाधीनां च भेदे जाग्रति कथमद्वितीयत्वं ब्रह्मण इति चेद्, मैवं, भेदप्रपञ्चस्य ब्रह्मण्यनाद्यविद्याकल्पितत्वेन स्रग्भुजङ्गवन्मिथ्यात्वात्। तेन तावन्न सद्वितीयत्वम् | अविद्या चेन्द्रजालविद्येव स्वाश्रयमैन्द्रजालिकमविमोहयन्ती ब्रह्माश्रिता काचिदशेषप्रपञ्चनिर्माणशक्तिः । शक्तिशक्तिमतोरभेद इति ब्रह्माद्वैतत्वसिद्धिः । ननु जीवेश्वरौ भिन्नौ विरुद्धधर्मत्वाद् दहनतुहिनवदिति भेदानुमानमस्तीति चेद्, न, एकत्वश्रुतिस्मृतिबाधितविषयत्वादस्यानुमानस्य । नन्वीश्वरस्य जीवैकत्वे संसारित्वं स्याद्, जीवानां चेश्वरत्वे संसारा[५]भाव-