पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥

श्रीनारायणभट्टकृतं

नारायणीयं

देशमङ्गलवार्यकृतया भक्तप्रियाख्यया व्याख्यया संवलितम् ।


गजाननं गिरां देवीं व्यासं कंसहनं गुरून् ।
भूतेशमीशमाशासितार्थदान् प्रण[१]माम्यहम् ॥

श्रीमद्भागवतार्थसङ्गहमयं नारायणीयाह्वयं
 स्तोत्रं हृद्यमनर्धमुज्ज्वलतरं ध्वस्तान्धकारोदयम् ।
यत् कण्ठेषु सतामनुत्तमगुणं प्रत्यग्रमुद्भासते
 तस्येयं क्रियते यथामति मया व्याख्या हि भक्तप्रिया ॥

कीर्तनं भगवत्कीर्तेर्मत्कृतावानुषङ्गिकम् ।
इत्येव प्रयते नास्मव्याख्यातृत्वप्रसिद्धये ॥

 इह खलु समधिगतनिखिलनिगमार्थसतत्त्वतया, शाब्दपरब्रझपारावारपारीणतया, परमभागवततया च सकल[२]सहृदयमहितयशाः श्रीनारायणकविः परमकारुणिकतया भक्तानुग्रहाय श्रीभागवतार्थानुसारि नारायणीयाभिधं[३] स्तोत्ररत्तं चिकीर्षुः प्रथमं प्रथमक्ष्लोकेन प्रारिप्सितस्य स्तोत्रस्याविघ्नेन परिसमाप्तिप्रचयगमनाभ्यां श्रोतृजनस[४]कलसमीहितसिद्धये च स्तोत्रप्रतिपाद्यजगत्सर्गविसर्गादिदशलक्षणलीलानिदानभूतपरत्तत्त्वानुस्मरणरूपं मङ्गलमाचरति -

सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां
 निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्मास्यमानम् ।


  1. 'णतोऽस्म्य' ख. पाठः.
  2. लहघ ख, पाठ:.
  3. ‘धानं स्तो’ ख. पाठः.
  4. 'निखिल' ख. पाठः.